न्यायकोशः /1027
This page has not been fully proofread.
न्यायकोशः ।
९७३
समाहारद्वन्द्वः – ( द्वन्द्वसमासः ) [ क ] एकवचनान्यसुबाकाङ्क्षा विहीनः
समासः। यथा पाणिपादम् हस्त्यश्वम् इति समाहारद्वन्द्वः । अत्र एके प्राञ्चो
नैयायिकाः आहुः । पाणिपदं पाणिप्रतियोगिकमित्यर्थं पादपदं च पाद-
समाहारं लक्षयति । न पाणिपादसमाहारे शक्तिः इति । शाब्दिकास्तु
समाहारे शक्तिः इत्याहुः । तथा च समाहारे द्वन्द्वे द्वित्वत्रित्वादिनैव समूहस्य
बोधात्समूहत्वमेव प्रवृत्तिनिमित्तम् इति विज्ञेयम् । अन्ये प्राञ्चो नैयायि-
कास्तु उत्तरपदे पाणिपादसाहित्ये लक्षणा । पाणि इति पदान्तरं तु
तादृशलक्षणाया निरूढत्वसंपादकम् । तथाविधसाहित्यस्य च स्वाश्रय-
निष्ठत्वादिसंबन्धेनैव द्वितीयाद्यर्थकर्मवादौ साकाङ्क्षत्वात् पाणिपादं वादय
इत्यादेर्नायोग्यत्वम् इत्याहुः ( श० प्र० श्लो० ४८ टी० पृ० ६१)
( न्या० म० ४ पृ० १३
) । नव्यास्तु चूडामणिभट्टाचार्यादयः पाणिपादं
वादय इत्यत्र पाणिपादमात्रप्रतीतेः (समाहाराप्रतीतेः ) न समाहारे
लक्षणा न वा शक्तिः । इतरेतरसमाहारसंज्ञा च नदी वृद्धि इत्यादिव-
पारिभाषिकैव । तथा च समाहार एकवद्भावेन न द्विवचनापत्तिः इति
प्राहु: ( न्या० म० ४ पृ० १३ ) ( म० प्र० ४ पृ० ४६) । पाणि-
पादम् हस्त्यश्वम् इत्यादितो हि करचरणादीनां बहूनामप्यवगतावेक-
वचनमेव प्रमाणम् ( श० प्र० श्लो० ४९ टी० पृ० ६६) । द्वन्द्वश्च
माणितूर्यसेनाङ्गानाम् (पाणि० २।४।२) इति सूत्रं प्रमाणमत्र द्रष्टव्यम् ।
[ख] समूहार्थको द्वन्द्वसंज्ञकः समासः इति शाब्दिका आहुः ।
समाहारद्विगु: - (द्विगुसमासः ) [ क ] खोपस्थाप्यार्थस्य समाहार-
•लक्षको यदीयान्त्यशब्दः स द्विगु: समाहारद्विगुः । यथा पञ्चपूली
इत्यादिः । अत्र हि योगलभ्यानां पञ्चामिन्नपूलानां समाहारः परस्थपूल-
शब्देन लक्ष्यते । न तु तत्र द्विगोः शक्तिः । अन्यलभ्ये शक्तययोगात् ।
अत एव न लक्षणापि । शक्यसंबन्धस्यैव लक्षणात्वेन वाक्ये तदसंभवात्
( श० प्र० श्लो० ३८ टी० पृ० ४७ ) इति । [ख ] तद्धितार्थो
त्तरपद द्विगुभ्यां भिन्नो द्विगुः । यथा पञ्चपूर्ली छिनत्ति । पञ्चपाचकी
इत्यादिरपि । एवं च द्विगो: कर्मधारयान्तर्गतत्वेपि न क्षतिः इति तु
•विभावनीयम् (श० प्र० श्लो० ३८ टी० पृ० ४७) ।