न्यायकोशः /1026
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
1
कुलादिनैवान्वयः। संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठ्यर्थः । अथ वा
संबन्धिशब्दार्थस्य पदार्थैकदेशत्वेपि भवत्येव तत्र संबन्धप्रतियोगिनो-
न्वयः । तदुक्तं भर्तृहरिणा संबन्धिशब्द: सापेक्षो नित्यं सर्वः समस्यते ।
वाक्यवत्सा व्यपेक्षापि वृत्तावपि न हीयते ॥ ( वाक्यप० ) इति ।
•
सापेक्षे प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्त-
वार्तिककारमतमपि भर्तृहरिमततुल्यमेव । प्राचीनानां तु विरुद्धा गाथा
विशेषणम् ॥ इति । स च समासः षड़िधः सुपां सुपा तिङा नाम्ना
धातुनाथ तिङां तिङा । सुबन्तेनेति च ज्ञेयः समासः षड़िधो बुधैः ॥
( वै० सा० समा० कारि० २८) इति । तत्र सुपां सुपा समासो
यथा राजपुरुषः इत्यादिः । सुपां तिङा यथा पर्यभूषत् इत्यादिः ।
अयं समासः सह सुपा (पाणि० २११४) इत्यत्र योग विभागेन भाष्ये
व्युत्पादितः स्पष्टः शब्दकौस्तुभादौ । सुपां नाम्ना यथा कुम्भकारः
इत्यादिः । सुपां धातुना यथा कटप्रूः आयतस्तूः इत्यादिः । तिडां
तिङा यथा पिबतखादता पचतभृज्जता इत्यादिः । तिङां सुबन्तेन 4
जहिस्तम्बः इत्यादिः इत्याहुः ।
<समाहारः
१ साहित्यम् । तच्च [क तुल्यवदेकक्रियान्वयित्ववपस्
( न्या ०म० ) । यथा मार्दङ्गिकवैणविकं वादय इत्यादौ समाहारः / तुल्य-
वत् समभावेनेत्यर्थः । इदं च पत्नीयजमानयोरेकया गान्वयिनोरतिव्यामि
वारणाय । तथा च पत्त्या अनुमतिद्वारा यजमानस्य च साक्षादेव गा
१६) /
तथा च क्रियायाः विधेयभूतायाः एकरूपस्तुल्यः संबन्धः समाहारः इति
समुदितार्थः । यथा केषांचिन्मते पाणिपादं वादय इत्यत्र वादन
तुल्यवदेव पाणिपादयोरन्वयः ( त० प्र० ख० ४ पृ० ५०/1/ख/
बुद्धि विशेष विशेष्यत्वम् । यथा पाणिपादम् इत्यादौ समाहारद्वन्द्वे समाहारः
अपेक्षाबुद्धि विशेष विषयत्वम् ( न्या० म० ४ पृ० १३ ) / [ग]
( श० प्र० श्लो० ४८.टी० पृ० ६१ ) । २ समुच्चयः । अनुद्भुता-
वयवविशेषः समूहः इति वैयाकरणा आहुः (वाच० ) ।