2023-10-18 12:15:57 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
मते तु राजपुरुषः इत्यादौ लुप्तषष्ठ्यादिविभत्तया स्मृतया प्रतिपाद्येनैव

स्वस्वामिभावसंबन्धेन ( न तु साक्षात् ) राजपदार्थस्य पुरुषादावन्वयः

स्वीकृत इति ( मु० ४ पृ० १८२ ) । उक्तव्युत्पत्तावव्ययनिपाताति-

रिक्तेतिपदप्रयोजनमुच्यते । घटो न पटः इत्यादौ घटपटाभ्यां नञः साक्षा-

देवान्वयात् निपातातिरिक्त इति पदं दत्तम् । चन्द्र इव मुखम् इत्यादौ

इवार्थसादृश्ये चन्द्रस्य प्रतियोगितया भेदेनान्वयात् अव्ययातिरिक्त इति

च पदं दत्तम् । नीलो घटः इत्यादौ नामार्थयोः स्तोकं पचति इत्यादौ

क्रियाप्रातिपदिकार्थयोश्चामेदेनान्वयात् भेदेन इत्युक्तम् । भूतले

घटः इत्यादौ आधेयतासंसर्गेणापि घटभूतलयोरन्वयात् साक्षात् इति

पदम् । प्रत्ययार्थमद्वारीकृत्य इति साक्षात् इत्यस्यार्थ : ( मु० ४ पृ०

१८२ ) ( दि० ) । भेदेन इत्यस्य तु तादात्म्यातिरिक्तेन इत्यर्थो

बोध्यः । राजा पुरुष: इत्यादौ स्वत्वरूपमेदसंबन्धेन राजपदार्थस्य

पुरुषादावन्वयमादाय राजसंबन्धी पुरुषः इति बोधवारणायास्या व्युत्पत्ते-

रावश्यकत्वम् । कर्मतानिरूपकत्वसंबन्धेनापि
( भेदसंबन्धेन )
तण्डुलादिपदार्थस्य पचनक्रियायामन्वयमादाय तण्डुलकर्मकः पाकः

कारकबोधमादाय तण्डुलः पचति इति प्रयोगवारणाय चेयं व्युत्प

त्तिरवश्यं स्वीकार्या इति ( मु० १।४ पृ० १८२ ) ( ग० अवय०

हेतु० ) । अत्रेदमवधेयम्-पचिक्रियायां तण्डुलादिकर्मकत्व प्रकारकशाब्द-
( भेदसंबन्धेन )
 

बुद्धित्वावच्छिन्नं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतिपदसमभि-

व्याहाररूपाकाङ्क्षाज्ञानं कारणम् इत्यावश्यक कार्यकारणभावेनैव तण्डुलः

पचति इत्यादिप्रयोगवारणोपपत्तावलमेताद्दश्या व्युत्पश्येति (ग० अवय०

हेतुप्र० ) ( ग० व्यु० कार० २ ) ।
 

 
<
अन्वयव्यतिरेकि- >
( लिङ्गम् ) [ क ] गृहीतान्वयव्य तिरेकिसाध्यकम् ( दी-

घि० २।१५६ ) । अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं भवति । पञ्च

रूपाणि च पक्षधर्मत्वम् सपक्षे सत्त्वम् विपक्षाद्वयावृत्तिः अबाधितवि-

षयत्वम् असत्प्रतिपक्षत्वं चेति ( सि० च० २१ २६ ) ( त० कौ०

२।१२) । एतानि पञ्च रूपाणि च बहिसाध्यकघूमादावन्वयव्यतिरेकिण्येव