This page has not been fully proofread.

न्यायकोशः ।
 
मते तु राजपुरुषः इत्यादौ लुप्तषष्ठ्यादिविभत्तया स्मृतया प्रतिपाद्येनैव
स्वस्वामिभावसंबन्धेन ( न तु साक्षात् ) राजपदार्थस्य पुरुषादावन्वयः
स्वीकृत इति ( मु० ४ पृ० १८२ ) । उक्तव्युत्पत्तावव्ययनिपाताति-
रिक्तेतिपदप्रयोजनमुच्यते । घटो न पटः इत्यादौ घटपटाभ्यां नञः साक्षा-
देवान्वयात् निपातातिरिक्त इति पदं दत्तम् । चन्द्र इव मुखम् इत्यादौ
इवार्थसादृश्ये चन्द्रस्य प्रतियोगितया भेदेनान्वयात् अव्ययातिरिक्त इति
च पदं दत्तम् । नीलो घटः इत्यादौ नामार्थयोः स्तोकं पचति इत्यादौ
क्रियाप्रातिपदिकार्थयोश्चामेदेनान्वयात् भेदेन इत्युक्तम् । भूतले
घटः इत्यादौ आधेयतासंसर्गेणापि घटभूतलयोरन्वयात् साक्षात् इति
पदम् । प्रत्ययार्थमद्वारीकृत्य इति साक्षात् इत्यस्यार्थ : ( मु० ४ पृ०
१८२ ) ( दि० ) । भेदेन इत्यस्य तु तादात्म्यातिरिक्तेन इत्यर्थो
बोध्यः । राजा पुरुष: इत्यादौ स्वत्वरूपमेदसंबन्धेन राजपदार्थस्य
• पुरुषादावन्वयमादाय राजसंबन्धी पुरुषः इति बोधवारणायास्या व्युत्पत्ते-
रावश्यकत्वम् । कर्मतानिरूपकत्वसंबन्धेनापि
तण्डुलादिपदार्थस्य पचनक्रियायामन्वयमादाय तण्डुलकर्मकः पाकः
कारकबोधमादाय तण्डुलः पचति इति प्रयोगवारणाय चेयं व्युत्प
त्तिरवश्यं स्वीकार्या इति ( मु० १।४ पृ० १८२ ) ( ग० अवय०
हेतु० ) । अत्रेदमवधेयम्-पचिक्रियायां तण्डुलादिकर्मकत्व प्रकारकशाब्द-
( भेदसंबन्धेन )
 
• बुद्धित्वावच्छिन्नं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतिपदसमभि-
●व्याहाररूपाकाङ्क्षाज्ञानं कारणम् इत्यावश्यक कार्यकारणभावेनैव तण्डुलः
पचति इत्यादिप्रयोगवारणोपपत्तावलमेताद्दश्या व्युत्पश्येति (ग० अवय०
हेतुप्र० ) ( ग० व्यु० कार० २ ) ।
 
अन्वयव्यतिरेकि- ( लिङ्गम् ) [ क ] गृहीतान्वयव्य तिरेकिसाध्यकम् ( दी-
घि० २।१५६ ) । अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं भवति । पञ्च
रूपाणि च पक्षधर्मत्वम् सपक्षे सत्त्वम् विपक्षाद्वयावृत्तिः अबाधितवि-
षयत्वम् असत्प्रतिपक्षत्वं चेति ( सि० च० २१ २६ ) ( त० कौ०
२।१२) । एतानि पञ्च रूपाणि च बहिसाध्यकघूमादावन्वयव्यतिरेकिण्येव