This page has not been fully proofread.

४६
 
न्यायकोशः ।
 
च साधारणधर्मवत्ताज्ञानविधया संशये प्रयोजक मिति प्राचीनमते साधार-
णानैकान्तिकलक्षणे ह्युपयुज्यते इति च विज्ञेयम् (चि० सत्प्र० २ । १०) ।
४ [क] कारणाधिकरणे कार्यस्य सत्त्वम् ( राम०५२ ) । यथा यत्सत्त्वे
( कारणसत्त्वे ) यत्सत्त्वम् ( कार्यसत्त्वम् ) इत्यन्वयः । [ख ] कार्य-
कारणयोः साध्यसाधनयोर्वा साहचर्यम् ( सि० च० २ । २६ ) । तत्र
कार्यकारणयोः साहचर्यं च स्वस्वव्याप्येतरयावत्कारणसत्त्वे यत्सत्त्वेवश्यं
यत्सत्त्वमिति ( त० प्र० ) । यथा चक्रादिघटितसामग्रीसमवहितदण्डा-
दिसत्त्वे घटसत्त्वमिति । साध्यसाधनयोर्यथा पर्वतो वह्निमान्धूमात् इत्यादौ
घूमवह्योः साहचर्यम् यत्र धूमस्तत्राग्निः इति । [ग] के चित्तु कार्ये कार-
णस्यानुसरणम् । [ घ ] कार्यसत्तापादकखसत्ताकस्य कारणस्य कार्ये
स्थितिः । [ ङ ] स्वसत्तानियतसत्तावत्कार्यसंबन्ध इत्याहुः । ५ हेत्वभाव-
वति कार्यान्वयज्ञानम् । व्यभिचारज्ञानमिति यावत् इति नव्या आहुः (मू०
म० १ ) । ६ शाब्दबोधीयसंसर्गताख्यविषयतावान् । यथा घटमानय
इति वाक्यजन्यशाब्दबोधे घटानयनादीनां पदार्थानां परस्परं संबन्धः ।
अयं चान्चयो द्विविधः । भेदान्वयः अभेदान्वयः । आद्यो राज्ञः पुरुषः
इत्यादौ राजपदार्थपुरुषपदार्थयोः । द्वितीयो नीलो घटः इत्यादौ नीलप-
दार्थघटपदार्थयोः (ग० व्यु० का० १ ) । ७ वृत्तिः । ८ आनुकूल्यम् ।
९ संततिरिति काव्यज्ञा वदन्ति ( वाच० )।
 
अन्वयदृष्टान्तः– ( दृष्टान्तः ) [ क] निश्चितसाध्यवान् ( वाक्य० २ ) ।
[ ख ] पक्षे हेतुप्रत्यक्षानन्तरं यदन्तर्भावेण साध्यनिरूपितव्याप्तिः स्मर्यते
सः । यथा पर्वते धूमेन वह्निसाधने महानसोन्वयदृष्टान्तः ।
अन्वयबोधः - शाब्दबोध - शब्दवदस्यार्थोनुसंधेयः । अत्रेयं व्युत्पत्तिः।
अव्ययनिपातातिरिक्तनामार्थयोः क्रियाप्रातिपदिकार्थयोश्च
नान्वयबोधः अव्युत्पन्नः इति । यथा - नैयायिकमते राजपुरुषः इत्यादौ
राजपदार्थस्य पुरुषपदार्थे स्वस्वामिभावसंबन्धेनान्वयो वाच्यः । तथाविधा-
न्वयस्य पूर्वोक्तव्युत्पत्तिविरुद्धवेन तं परित्यज्य राजपदस्य राजसंबन्धिनि
लक्षणां स्वीकृत्य तादृशराजपदार्थस्याभेदेन पुरुषपदार्थेन्वयः । वैयाकरण-
साक्षाद्भेदे-
"