2023-02-20 00:57:35 by ambuda-bot
This page has not been fully proofread.
१००२
न्यायकोशः ।
इति प्रतीत्या गम्यत इति विज्ञेयम् । [ ख ] अनुमितिविधेयत्वम् । यथा
पर्वतो वह्निमान् घूमात् इत्यादौ वहेः साध्यत्वम् । [ग] सिद्धिकर्मत्वम्
( त० प्र० ) ( दि० गु० ) । यथा पर्वतो वहिमान् इति निश्चय-
विषयत्वं बहेः । सिद्धिकर्मत्वमित्यत्र कर्मत्वं च विषयत्वम् ( दि० गु० ) ।
[घ ] वेदान्तिनस्तु यत्प्रतीतिर्लिङ्गेन जनयितव्या स साध्यधर्म इत्याहुः
( प्र० च० पृ० २३) । २ इच्छाविषयता विशेषः । यथा घटो जायताम्
इत्यत्र घटीया साध्यताख्या विषयता । यथा वा पाक: साध्यताम्
इतीच्छाविषयत्वम् । ३ अनन्तरभविष्यत्वम् ( त० प्र० ४ पृ० १०२) ।
यथा यागस्य कृतिसाध्यत्वम् । यथा वा घटादेर्दण्ड
चक्रादिघटितसामग्री-
साध्यत्वम् । अत्रेदं बोध्यम् । साध्यत्वं चासिद्धधर्मः । भाविकालवृत्तिधर्म
इत्यर्थः । साधनत्वं तु सिद्धो धर्मः । पूर्वकालवृत्तिधर्मः इत्यर्थः ( त ०
प्र० ख० ४ पृ० १०२) ।
साध्यताघटकसंबन्धः -- येन संबन्धेन साध्यता विवक्ष्यते स संबन्धः ।
यथा पर्वतादौ संयोगेन वड्या दिसाधने संयोगसंबन्धः साध्यताघटक-
संबन्धः । यथा वा तमः समवायेन गगनबत् इत्यादौ समवायसंबन्धः
( दीषि० ) ( ग० संश० पक्ष० पृ० ५ ) । एवम् प्रतियोगितावच्छेद-
कसंबन्धानुयोगितावच्छेदकसंबन्धादयः स्वयमूह्याः ।
♦
-
साध्यतावच्छेदकम् – येन धर्मेण संबन्धेन वा साध्यतावच्छिद्यते सः ।
- -
यथा पर्वते संयोगसंबन्धेन वः साधने पर्वतः संयोगेन वह्निमान् इत्यादौ
वहित्वं संयोगश्च साध्यतावच्छेदकः । अत्र वहिः साध्यः । तनिष्ठां
साध्यतां वहित्वं संयोगश्चावच्छिनत्ति इति ज्ञेयम् । एवम् कारणताव-
च्छेदककार्यतावच्छेदके लक्ष्यतावच्छेदकलक्षणतावच्छेदके उद्देश्यताव-
च्छेदकविधेयतावच्छेदके प्रतियोगितावच्छेदकानुयोगितावच्छेदके इत्या-
दयः शब्दा यथायोग्यं व्याख्येयाः इति । अत्र व्युत्पत्तिः साध्यताम-
वच्छिनत्ति विशेषयति ( ण्वुलू ) इति । अत्र साध्यतावच्छेदकत्वं च
स्वरूपसंबन्धविशेषः विषयताविशेषो वा ।
साध्यतावच्छेदकसंबन्धः - साध्यताघटकसंबन्धः ।