2023-02-20 00:57:34 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
साधारण्यम् - साधारणवृत्तिर्धर्मः । स च साधारणत्वादिः ।
-
साधु: - १ प्रियकारी । यथा मातरं प्रति साधुः इत्यादौ साधुशब्दस्यार्थः
( ग० व्यु० का० २ ख० २ पृ० ७६ ) । २ यः शब्दो यत्रेश्वरेण
संकेतितः स तत्र साधुः ( संज्ञा विशिष्टः ) । यथा या काचिदोषधिर्न-
कुलदंष्ट्रामस्पृष्टा सा सर्वापि सर्पविषं हन्ति इत्येतादृशी संज्ञा ( ईश्वर-
संकेतः ) ( वै० उ० २११११९ १० ९४ ) इति । ३ शाब्दि-
कास्तु यः शब्दो यस्मिन्नर्थे व्याकरणेन व्युत्पादितः स तत्र साधुः
प्रयोगाई : (चि० ४ ) । स च व्याकरणष्यमय साधुताजात्याश्रयः
शब्दः । यथा कर्मणि द्वितीया ( पाणि ० २।३।२ ) इत्यादौ द्वितीया
कर्मार्थे साधुः इत्याहुः । अत्र साधुत्वं च अर्थविशेषे व्याकरणानुशिष्ट-
जातीयत्वम् । अत्र जातीयत्वोपादानानाधुनिकचैत्रादिशब्देष्यव्याप्तिः
( म०प्र० ४ ) । अत्रोक्तम् अनपभ्रंशताना दिर्यद्वाभ्युदययोग्यता ।
व्याक्रियाव्यञ्जनीया वा जाति: कापीह साधुता ॥ ( भर्तृ० ) इति ।
तदर्थस्तु अनपभ्रंशत्वम् अनादित्वम् अभ्युदयसाधनप्रयोगविषयत्वम्
व्याकरणव्यज्या जातिर्वा साधुता इति ( वाच० ) । ४ पौराणिकास्तु
साधुलक्षणयुक्तो जन इत्याहुः । तल्लक्षणं तु न प्रहृष्यति संमाने नाप-
मानेच कुप्यति । न क्रुद्धः परुषं ब्रूयादेतद्वै साधुलक्षणम् ॥
( गरुडपु० ) इति । यथालन्धेपि संतुष्टः समचित्तो जितेन्द्रियः । हरि-
पादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ निर्वैरः सदयः शान्तो दम्भा-
हंकारवर्जितः । निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥ ( पद्मोत्त०
ख० अ० ९९ ) इति च । साध्वीलक्षणं तु पति या नाभिचरति
मनोवाक्कायसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥
( मनु० अ० ९ लो० २९ ) इति । ५ काव्यज्ञाच उत्तमकुलजातः ।
६ सुन्दरः । ७ उचितः । ८ मुनिः इत्याहुः । ९ जिनः इति जैना
आहुः ( हेमच० ) ।
।
१००
साध्यता - १ विषयताविशेषः । तच [ क ] पश्चाषयवसाधनीयत्वम्
( गौ० वृ० ५/११४ ) । स च साधयामि साध्यविशेषं बहुपादिकम्
१२६ न्या. को.