This page has not been fully proofread.

न्यायकोशः ।
 
बद्गामित्वम् (चि० बाघ ० ) ( न्या० बो० ) । [घ ] साभ्यवदन्य-
वृत्तित्वम् इत्यादि । यथा धूमवान्वः इत्यत्र धूमषदन्यस्मिन् तप्तायः पिण्डे
वहेः सत्त्वाद्वः साधारणत्वम् ( न्या० म० २ १० २० ) । एत-
लक्षणद्वयेन प्रदर्शितं साधारणत्वं पूर्वपक्षीयम् । तच्च व्यभिचार इति
व्यबद्दियते ( दीधि० २ बाघ ० पृ० २२४ ) । [ङ ] साभ्यासमाना-
धिकरणस्वसमानाधिकरणत्वम् । यथा घूमबान्वः इत्यत्र वः साधारण-
त्वम् । भवति हि धूमासमानाधिकरणं यत् धूमवदन्यत्वम् तत्समानाधिक
रणो वहिः (न्या० म० २ पृ० २०) इति । साध्यतावच्छेदके हेतुसमा-
नाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकत्वम् ( ग० सामा०) (नील० )
इति तत्तात्पर्यम् । यथा पर्वतो वह्निमान्प्रमेयत्वात् इत्यादौ प्रमेयत्वस्य
साधारणत्वम् । इदं च सिद्धान्तसिद्धं साधारणत्वम् इति बोष्यम् । अभि-
धेयत्वं प्रमेयत्वस्य व्यभिचारि इत्या कारक भ्रमात्मक व्यभिचारप्रहस्य व्यापक-
सामानाधिकरण्यग्रह विरोधितया तद्विरोधित्वान्यथानुपपत्त्येदं लक्षणं स्त्री-
कार्यम् । तेन तत्र प्रमेयत्वाभावाप्रसिद्ध्या पूर्वपक्षीयव्यभिचारग्रहासंभवेपि
न क्षतिः ( ग० २ सामा० ल० १ पृ० ५-६ ) ।
 
-
 

 
साधारणधर्मः – १ [ क ] तदितरवृत्तित्वे सति तद्वृत्तिर्धर्मः । यथा प्रमे-
यत्वं गोः साधारणधर्मः । यथा वा मुखं पद्ममिव सुन्दरम् इत्यादौ
सौन्दर्यादिः । [ ख ] समानधर्मः । २ स्वाभाविकधर्मः । यथा प्रजा-
सर्जनादिरूपो जन्तुमात्रधर्म: । तदुक्तम् प्रजनार्थ स्त्रियः सृष्टाः संतानार्थं
च मानवाः । तस्मात्साधारणो धर्मः श्रुतौ पत्त्या सहोदितः ॥ ( मनु
अ०९ लो० ९६ ) इति । अत्र अभ्याधानादिरपि स्त्रीपुंसयोः साधा-
रणो धर्मः ( मनु० टी० कुल्लूक० अ० ९ श्लो० ९६ ) । ३ धर्म-
ज्ञास्तु ब्राह्मणादिचातुर्वर्ण्यविहितो धर्मः । यथा अहिंसादिः इत्याहुः ।
म हिंस्मात्सर्वा भूतानि ( श्रुतिः ) इत्याचाण्डालं साधारणो धर्म:
( मिता० १।१ पृ० १ ) । तदुक्तम् अहिंसा सत्यमस्तेयं शौचमिन्द्रिय-
निग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ( माह •

अ० १ को० १२१ ) ( मनु० अ० १० को० ६३) इति ।