This page has been fully proofread once and needs a second look.

कूपोत्थं सलिलं तृणं स्थलभवं पङ्कोज्झितं चास्पदं
शालायामपि मक्षिकामशकयोर्नाशाय धूमोद्गमः ।
वस्त्यास्थापनकर्म जाङ्गलरसस्नेहान्वितं चौदनं
यूषो जाठरवह्निवर्द्धनकरश्चायं विधिर्वार्षिकः ॥ ३५ ॥
 
[^१]आकण्ठं भृशमञ्जरीस्फुटरसः शालिः सुशीतास्पदं
देयाः सप्रसवाश्च माषसहिता मुद्गा मकुष्टादयः ।
गोधूमः सलिलाप्लतिः प्रतिदिनं सायं स एवाशनं
स्विन्नक्षीरयुतं तथा घृतरसाढ्यं शारदोऽयं विधिः ॥ ३६॥
 
सेवा बालातपस्य प्रसभजलचरानूपजो वेशवार-
स्तद्ज्ञैः पाथस्यगाधे सकृदपि करिणां शस्यते चावगाहः ।
स्नेहस्तैलेन कार्यः शिरसि च सततं हैमनोऽयं विधिः स्या-
देवं सर्वर्तुचर्या क्रमश इति बुधैर्देशिता वारणानाम् ॥ ३७॥
 
भीरुभिन्ननखोऽनवस्थितमनाः प्रत्यर्थवेदी चलत्-
स्थूलाङ्घ्रिः परुषच्छविर्न सहनः स्तब्धाल्परोमोत्सुकः ।
लक्ष्यस्नायुसिराविरूक्षरदनः शीघ्रो विरूपेक्षणो
दुर्मेधा विषमश्च कर्मसु गजो यः स स्मृतो वातिकः ॥ ३८ ॥
 
चण्डो नि[^२]र्भुण्डिताक्षस्तनुकररदनत्वङ्नखश्रोत्ररोम-
ग्रीवागात्रापराङ्घ्रिर्बहुभुगरुणदृग् दुर्बलो बह्वलीकः ।
छायेच्छुर्द्वेष्टि धर्मं विसृजति न चिराद् दानमुत्तानवेदी
हीयेतोच्चैः प्रहीणं श्रयति पुनरिभः पैत्तिको नातिशोभः ॥ ३९ ॥
 
हर्यक्षः सुमहाङ्गुलीकरशिरःकुम्भादिरीषत्प्रियो
[^३]नातिक्रुद्धयति मन्दवह्निरभयो गम्भीरवेदी स्थिरः ।
 
[^१] 'आकुष्ठम् भृत' ग-पाठः ।
 
[^२] 'र्भ' ग-पाठः ।
 
[^३] 'नागः कुप्यति' ख-पाठः ।