2023-08-13 15:22:43 by Bharadwajraki
This page has been fully proofread twice.
पराक्रमन्ते, किं बन्धुभिः, किं सचिवैः, किं बलेन, किं धनेन, किमनेन दम्भोळिना, किमन्ततोऽपि मया, कथं दृश्या दाराः कथं दृश्याः पौराः, किमितो [^१]निहतेन जीवितेन, किं करिष्यति विपरीतो विधिरितोऽपि, न चिकीर्षामि सौवर्गमाधिपत्यं, न जिहीर्षामि दानवानामौद्धत्यं यावदीदृशोऽहं न कस्यचिद्दृष्टिगोचरे पतेयं तावदस्मिन्नेव
[commentary]
ल्यं फलाभिमुख्यम् अहो, देहिषु प्राणिषु, श्रियश्चाञ्चल्यं तारळ्यम्, अहो, पुरुषस्य, कारः कृतिः प्रयत्न इति यावत् । तस्य वैफल्यम् नैरर्थक्यं, अहो । बलवत्सम्बन्ध्यपि कालविशेषे न फलतीति भावः । परमेष्ठिनः कौशल्यञ्चातुर्यमहो । यतः नीचानुत्तमयति उत्तमान्नीचयतीति भावः । पाशुपतेषु, पशुपतेः शिवस्य भक्तेषु, माहात्म्यं सत्यवचनत्वादिकं अहो । कदाचिदप्यन्यथा न भवतीति भावः । दुर्निमित्तेषु प्रागुक्तप्रतिकूलपवनादिषु, याथार्थ्यं अन्यूनानतिरिक्तशास्त्रोक्तफलसम्पादकत्वम्, अहो । आहवो रणः, नाम प्रसिद्धः, अयमसुरैस्सह कलहः, कियान् किं महान् असुरा, नाम प्रसिद्धा, इमे पुरोवर्तिनः कियन्तः किं शूराः, कीदृशाः कथम्भूताः, पराक्रमन्ते । कीदृशाः कथम्भूताः, पलायन्ते प्रधावन्ते । बन्धुभिः रक्तसम्बन्धिभिः, किं ? न किमपि प्रयोजनमिति भावः । सचिवैर्मन्त्रिभिर्वा किं ? न किमपीति भावः । बलेन सामर्थ्येन, किं ? धनेन किं ? दम्भोळिना वज्रेण वा, किं ? । अन्ततः अवसाने । सार्वविभक्तिकस्तसिः । मयापि वा किं ? किमपि साध्यं नास्तीति भावः । दाराश्शची कथं दृश्याः द्रष्टव्याः । प्राक्तदग्रे वीरवादानां कथनादिति भावः । पौराः पुरजनाः कथं दृश्याः ? तान् प्रति ? 'भयं त्यजत, युष्मानहं पालयिष्यामि' इत्यभिधानादिति भावः । इतः, परमिति शेषः । निहतेन । भावे क्तः । मरणेन किं? 'जीवितेन जीवनेन किं? उभयथापि अमरावती दुर्लभेति भावः । यद्वा
[^१] निहतेन इत्यस्य कर्मणि निष्ठायां जीवितेनेत्यस्य विशेषणतया सामानाधिकरण्येनान्वयो विरोधान्न घटत इति व्याख्याता भावेक्तान्ततामाश्रित्य मरणेन, जीवितेन जीवनेन वा इत्यर्थमाह ॥
मया इति विशेष्यमध्याहृत्य कर्मक्तान्तेऽर्थमाह द्वितीयपक्षे । तृतीयपक्षे वाकाराध्याहारं विना सामानाधिकरण्येन विशेषणतया कर्मक्तान्तान्वयमाह ॥ द्वितीयतृतीयपक्षयोः जीवितेन = जीवता इत्यर्थलाभः भावे क्तान्ता 'दर्श आदित्वाद्' अचि, पचाद्यजन्तजीवशब्दात्तारकादित्वादितचि तद्धिते वा बोध्यः ॥