This page has been fully proofread once and needs a second look.

प्रथमाश्वासः
 
पराक्रमन्ते, किं बन्धुभिः, किं सचिवैः, किं बलेन, किं धनेन, किमनेन
दम्भोळिना, किमन्ततोऽपि मया, कथं दृश्या दाराः कथं दृश्याः
पौराः, किमितो '[^१]निहतेन जीवितेन, किं करिष्यति विपरीतो विधि-
रितोsपि, न चिकीर्षामि सौवर्गमाधिपत्यं, न जिहीर्षामि दानवाना-
मौद्धत्यं यावदीदृशोऽहं न कस्यचिद्दृष्टिगोचरे पतेयं तावदस्मिन्नेव
 
बलव-
"
 

 
[commentary]
 
ल्यं फलाभिमुख्यम् अहो, देहिषु प्राणिषु, श्रियश्चाञ्चल्यं तारळ्यम्, अहो, पुरुषस्य,
कार:रः कृति:तिः प्रयत्न इति यावत् । तस्य वैफल्यम् नैरर्थक्यं, अहो ।
बलवत्सम्बन्ध्यपि कालविशेषे न फलतीति भावः । परमेष्ठिन:नः कौशल्यञ्चातुर्यमहो । यतः
नीचानुत्तमयति उत्तमान्नीचयतीति भावः । पाशुपतेषु, पशुपते:तेः शिवस्य भक्तेषु,
माहात्म्यं सत्यवचनत्वादिकं अहो । कदाचिदप्यन्यथा न भवतीति भावः ।
दुर्निमित्तेषु प्रागुक्तप्रतिकूलपवनादिषु, याथार्थ्यं अन्यूना नतिरिक्तशास्त्रोक्तफलसम्पा-
दकत्वम्, अहो । आहवो रणः, नाम प्रसिद्धः, अयमसुरैस्सह कलह:हः, कियान् कि
किं महान् असुरा, नाम प्रसिद्धा, इमे पुरोवर्तिनः कियन्तः किं शूराः,
कीदृशाः कथम्भूताः, पराक्रमन्ते । कीदृशाः कथम्भूताः, पलायन्ते प्रधावन्ते ।
बन्धुभिः रक्तसम्बन्धिभिः, किं ? न किमपि प्रयोजनमिति भावः । सचि-
वैर्मन्त्रिभिर्वा किं ? न किमपीति भावः । बलेन सामर्थ्येन, किं ? धनेन किं ?
दम्भोळिना वज्रेण वा, किं ? । अन्ततः अवसाने । सार्वविभक्तिकस्तसिः ।
मयापि वा किं ? किमपि साध्यं नास्तीति भावः । दाराश्शची कथं दृश्याः
द्रष्टव्याः । प्राक्तदमेग्रे वीरवादानां कथनादिति भावः । पौरा:राः पुरजनाः कथं
दृश्या:याः ? तान् प्रति ? 'भयं त्यजत, युष्मानहं पालयिष्यामि' इत्यभिधाना-
दिति भावः । इतः, परमिति शेष:षः । निहतेन । भावे क्तः । मरणेन
किं? 'जीवितेन जीवनेन किं? उभयथापि अमरावती दुर्लभेति भावः । यद्वा
 
1.

 
[^१]
निहतेन इत्यस्य कर्मणि निष्ठायां जीवितेनेत्यस्य विशेषणतया सामानाधिकरण्ये-
नान्वयो विरोधान्न घटत इति व्याख्याता भावेक्तान्ततामाश्रित्य मरणेन, जीवितेन जीवनेन
वा इत्यर्थमाह ॥
 

 
मया इति विशेष्यमध्याहृत्य कर्मकाक्तान्तेऽर्थमाह द्वितीयपक्षे । तृतीयपक्षे वाकारा ध्याहारे
रं विना सामानाधिकरण्येन विशेषणतया कर्मकाक्तान्तान्वयमाह ॥ द्वितीयतृतीयपक्षयोः
जीवितेन= जीवता इत्यर्थलाभ:भः भावे काक्तान्ता 'दर्श आदित्वादूद्' अचि, पचाद्यजन्तजीव-
शब्दात्तारकादित्वादितचि तद्धिते वा बोध्यः ॥