2023-06-05 16:39:50 by ambuda-bot
This page has not been fully proofread.
प्रथमाश्वासः
पराक्रमन्ते, किं बन्धुभिः, किं सचिवैः, किं बलेन, किं धनेन, किमनेन
दम्भोळिना, किमन्ततोऽपि मया, कथं दृश्या दाराः कथं दृश्याः
पौराः, किमितो 'निहतेन जीवितेन, किं करिष्यति विपरीतो विधि-
रितोsपि, न चिकीर्षामि सौवर्गमाधिपत्यं, न जिहीर्षामि दानवाना-
मौद्धत्यं यावदीदृशोऽहं न कस्यचिद्दृष्टिगोचरे पतेयं तावदस्मिन्नेव
बलव-
"
ल्यं फलाभिमुख्यम् अहो, देहिषु प्राणिषु, श्रियश्चाञ्चल्यं तारळ्यम्, अहो, पुरुषस्य,
कार: कृति: प्रयत्न इति यावत् । तस्य वैफल्यम् नैरर्थक्यं, अहो ।
त्सम्बन्ध्यपि कालविशेषे न फलतीति भावः । परमेष्ठिन: कौशल्यञ्चातुर्यमहो । यतः
नीचानुत्तमयति उत्तमान्नीचयतीति भावः । पाशुपतेषु, पशुपते: शिवस्य भक्तेषु,
माहात्म्यं सत्यवचनत्वादिकं अहो । कदाचिदप्यन्यथा न भवतीति भावः ।
दुर्निमित्तेषु प्रागुक्तप्रतिकूलपवनादिषु, याथार्थ्य अन्यूना नतिरिक्तशास्त्रोक्तफलसम्पा-
दकत्वम्, अहो। आहवो रणः, नाम प्रसिद्धः, अयमसुरैस्सह कलह:, कियान् कि
महान् असुरा, नाम प्रसिद्धा, इमे पुरोवर्तिनः कियन्तः किं शूराः,
कीदृशाः कथम्भूताः, पराक्रमन्ते । कीदृशाः कथम्भूताः, पलायन्ते प्रधावन्ते ।
बन्धुभिः रक्तसम्बन्धिभिः, किं ? न किमपि प्रयोजनमिति भावः । सचि-
वैर्मन्त्रिभिर्वा किं ? न किमपीति भावः । बलेन सामर्थ्येन, किं ? धनेन किं ?
दम्भोळिना वज्रेण वा, किं ? । अन्ततः अवसाने । सार्वविभक्तिकस्तसिः ।
मयापि वा किं ? किमपि साध्यं नास्तीति भावः । दाराश्शची कथं दृश्याः
द्रष्टव्याः । प्राक्तदमे वीरवादानां कथनादिति भावः । पौरा: पुरजनाः कथं
दृश्या: ? तान् प्रति ? 'भयं त्यजत, युष्मानहं पालयिष्यामि' इत्यभिधाना-
दिति भावः । इतः, परमिति शेष: । निहतेन । भावे क्तः । मरणेन
किं? 'जीवितेन जीवनेन किं? उभयथापि अमरावती दुर्लभेति भावः । यद्वा
1. निहतेन इत्यस्य कर्मणि निष्ठायां जीवितेनेत्यस्य विशेषणतया सामानाधिकरण्ये-
नान्वयो विरोधान घटत इति व्याख्याता भावेक्तान्ततामाश्रित्य मरणेन, जीवितेन जीवनेन
वा इत्यर्थमाह ॥
मया इति विशेष्यमध्याहृत्य कर्मकान्तेऽर्थमाह द्वितीयपक्षे । तृतीयपक्षे वाकारा ध्याहारे
विना सामानाधिकरण्येन विशेषणतया कर्मकान्तान्वयमाह ॥ द्वितीयतृतीयपक्षयोः
जीवितेन= जीवता इत्यर्थलाभ: भावे कान्ता 'दर्श आदित्वादू' अचि, पचाद्यजन्तजीव-
शब्दातारकादित्वादितचि तद्धिते वा बोध्यः ॥