2023-08-13 14:58:05 by Bharadwajraki
This page has been fully proofread twice.
वायसयूथमिव, वानरानीकमिव, केरळसैन्यमिव, ग्रामपालकजालमिव, करताळिकामात्रकातरममर्त्यबलमप्यालोकयन्, दशभिः शतैरक्ष्णां, वासवः स्वयमेवमालोचयामास । अहो दुर्वाससो ब्राह्मण्यम्, अहो निगमागमप्रामाण्यम्, (अहो aपाशुपतेषु माहात्म्यम्, अहो दुर्निमित्तेषु याथार्थ्यं,) अहो कर्मपरिणतेः प्राबल्यम्, अहो देहिषु श्रियश्चाञ्चल्यम्, अहो पुरुषकारस्य वैफल्यम्, अहो परमेष्टिनः कौशल्यम्, आहवो नाम कियानयम्, असुरा नाम कियन्त इमे, कीदृशाः bपलायन्ते, कीदृशाः
[commenatry]
गृहीतस्सम्पादितो, जयः येन तत्तथाभूतमपि । कदापि, अशिक्षितं अनभ्यस्तम्, आयुधानां, ग्रहणं स्वीकारो येन तत्तथाभूतमिव । अनाकर्णिता अश्रुता, सङ्ग्रामस्य, कथा प्रस्तावो, येन तत्तथाभूतमिव । वायसानां, कुलं यूथमिव । वानराणामनीकं सेनामिव । केरळानां केरळदेशीयानां, सैन्यं सेनामिव । युद्धयात्रायां 'केरळाश्चपला रुष्टा हन्युस्स्वस्वामिनं प्रियम्' इति योधाधर्मत्वेन केरळानामुक्तत्वादिति भावः । ग्रामपालानां खण्डभूपतीनां, शुनां वा, जालमिव समूहमिव करताळिकामात्रेण करताडनमात्रेण, कातरं अधीरं । 'अधीरे कातरत्रस्नुर्भीरुभीरुकभीलुकाः' इत्यमरः । अमर्त्यानां, बलं सैन्यमपि। 'सैन्यास्थिदर्परेतश्शक्तिस्थौल्येषु चेद्बलं क्लीबे' इति नानार्थमाला । वासवः, स्वयमेव, दशभिश्शतैस्सहतस्रेणेत्यर्थः । अक्षिभिरालोकयन् पश्यन् सन्,
एवमालोचयामास चिन्तयामास । बलरहितः को वा स्वामी चिन्तां न भजेतेति भावः आलोचनप्रकारमेवाह ॥ अहो इति ॥ दुर्वाससो मुनेः ब्राह्मण्यं, अहो विस्मयावहम् । यतस्तदेकबलमवलम्ब्य सर्वं यथाकामं करोतीति भावः । निगमः वेदः, आगमश्शास्त्रं, तयोः । [^१]'तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः' इत्यादिश्रुतिः । 'समागतं ब्रह्मनिष्ठं नावमन्येत कर्हिचित् । ब्रह्मतेजोवधादन्यत्कारणं नेष्टनाशने ॥' इति स्मृतिः । एवं रूपयोरित्यर्थः । प्रामाण्यं यथार्थबोधकत्वं । अहो इत्याश्चर्यार्थकस्सर्वत्र । अन्यथा कदाचिदेव न भवतीति भावः । कर्मणां परिणतेः परिपाकस्य, प्राब-
(a) एतन्मूलग्रन्थः व्याख्यानुरोधेन 'अहो परमेष्ठिनः कौशल्यम्' -- इत्यतः परं पठनीयः ॥
(b) 'कीदृशाः पराक्रमन्ते, कीदृशाः पलायन्ते' इति व्यत्यस्तपाठः व्याख्यात्रादृतः ॥
[^१] मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे दशममन्त्रस्य तुरीयः पादः । 'यं यं लोकं मनसा संविभाति, विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामान्' -- इत्यपरे त्रयः पादाः ॥
[commenatry]
गृहीतस्सम्पादितो, जयः येन तत्तथाभूतमपि । कदापि, अशिक्षितं अनभ्यस्तम्, आयुधानां, ग्रहणं स्वीकारो येन तत्तथाभूतमिव । अनाकर्णिता अश्रुता, सङ्ग्रामस्य, कथा प्रस्तावो, येन तत्तथाभूतमिव । वायसानां, कुलं यूथमिव । वानराणामनीकं सेनामिव । केरळानां केरळदेशीयानां, सैन्यं सेनामिव । युद्धयात्रायां 'केरळाश्चपला रुष्टा हन्युस्स्वस्वामिनं प्रियम्' इति योधाधर्मत्वेन केरळानामुक्तत्वादिति भावः । ग्रामपालानां खण्डभूपतीनां, शुनां वा, जालमिव समूहमिव करताळिकामात्रेण करताडनमात्रेण, कातरं अधीरं । 'अधीरे कातरत्रस्नुर्भीरुभीरुकभीलुकाः' इत्यमरः । अमर्त्यानां, बलं सैन्यमपि। 'सैन्यास्थिदर्परेतश्शक्तिस्थौल्येषु चेद्बलं क्लीबे' इति नानार्थमाला । वासवः, स्वयमेव, दशभिश्शतैस्सह
(a) एतन्मूलग्रन्थः व्याख्यानुरोधेन 'अहो परमेष्ठिनः कौशल्यम्' -- इत्यतः परं पठनीयः ॥
(b) 'कीदृशाः पराक्रमन्ते, कीदृशाः पलायन्ते' इति व्यत्यस्तपाठः व्याख्यात्रादृतः ॥
[^१] मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे दशममन्त्रस्य तुरीयः पादः । 'यं यं लोकं मनसा संविभाति, विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामान्' -- इत्यपरे त्रयः पादाः ॥