This page has been fully proofread once and needs a second look.

७६
 
नीलकण्ठविजये सव्याख्याने
 
वायसयूथमिव वानरानीकमिव, केरळसैन्यमिव, ग्रामपालकजालभिव,
मिव, करताळिकामात्र कातर ममर्त्यबलमप्यालोकयन्, दशभिः शतैरक्ष्णां,
वासवः स्वयमेवमालोचयामास । अहो दुर्वाससो ब्राह्मण्यम्, अहो निग-
मागमप्रामाण्यम्, (अहो aपाशुपतेषु माहात्म्यम्, अहो दुर्निमित्तेषु
याथार्थ्यं,) अहो कर्मपरिणते:तेः प्राबल्यम्, अहो देहिषु श्रियश्चाञ्चल्यम्,
अहो पुरुषकारस्य वैफल्यम्, अहो परमेष्टिनः कौशल्यम्, आहवो नाम
कियानयम्, असुरा नाम कियन्त इमे, कीदृशाः bपलायन्ते, कीदृशाः

 
[commenatry]
 
गृहीतस्सम्पादितो, जय:यः येन तत्तथाभूतमपि । कदापि, अशिक्षितं अनभ्यस्तम्,
आयुधानां, ग्रहणं स्वीकारो येन तत्तथाभूतमिव । अनाकर्णिता अश्रुता, सङ्गामस्य,
ग्रामस्य, कथा प्रस्तावो, येन तत्तथाभूतमिव । बावायसानां, कुलं यूथमिव । वानराणामनीकं सेना-
मिव । केरळानां केरळदेशीयानां, सैन्यं सेनामिव । युद्धयात्रायां 'केरळाश्चपला रुष्टा
हन्युस्स्वस्वामिनं प्रियम्' इति योधाधर्मत्वेन केरळानामुक्तत्वादिति भावः । ग्रामपालानां
खण्डभूपतीनां, शुनां वा, जालमिव समूहमिव करताळिकामात्रेण करताडनमात्रेण,
कातरं अधीरं । 'अधीरे कातरत्रस्नुर्भीरुभीरुकभीलुकाः' इत्यमरः । अमर्त्यानां,
बलं सैन्यमपि। 'सैन्यास्थिदर्प रेतश्शक्तिस्थौल्येषु चेद्लं क्लीबे' इति नानार्थमाला ।
वासवः, स्वयमेव, दशभिश्शतैस्सहत्तस्रेणेत्यर्थः । अक्षिभिरालोकयन् पश्यन् सन्,

एवमालोचयामास चिन्तयामास । बलरहितः को वा स्वामी चिन्तां न भजेतेति भावः
आलोचनप्रकारमेवाह ॥ अहो इति ॥ दुर्वाससो मुनेः ब्राह्मण्यं, अहो विस्मयाव-
हम् । यतस्तदेकबलमवलम्ब्य सर्वं यथाकामं करोतीति भावः । निगमः वेदः,
आगमश्शास्त्रं, तयोः । "[^१]'तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः' इत्यादिश्रुतिः । 'समा-
गतं ब्रह्मनिष्ठं नावमन्येत कर्हिचित् । ब्रह्मतेजोवधादन्यत्कारणं नेष्टनाशने ॥'
इति स्मृतिः । एवं रूपयोरित्यर्थः । प्रामाण्यं यथार्थबोधकत्वं । अहो इत्याश्चर्यार्थ-
कस्सर्वत्र । अन्यथा कदाचिदेव न भवतीति भावः। कर्मणां परिणतेः परिपाकस्य, प्राब-
"
 
9
 
19
 
-
 

 
(a) एतन्मूलप्ग्रन्थः व्याख्यानुरोधेन 'अहो परमेष्ठिन:नः कौशल्यम्' -- इत्यतः
पर
परं पठनीयः ॥
 

 
(b) 'कीदृशा: परशाः पराक्रमन्ते, कीदृशाः पलायन्ते' इति व्यत्यस्तपाठः व्याख्यात्रादृतः ॥
1

 
[^१]
मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे दशममन्त्रस्य तुरीयः पादः ।
'यं यं लोकं मनसा संविभाति, विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते
तांश्च कामान्' -- इत्यपरे त्रयः पादाः ॥