This page has been fully proofread twice.

आक्रान्ते भुवने परैस्तृणमपि स्प्रष्टुं न शक्यं मया
किं कर्तव्यमिति व्यलीयत जवाद्दैत्याशुगेष्वाशुगः ॥ ४२ ॥
 
अनन्तरमित्थमतर्कितमनिमित्तं अपध्वंसमानमसुरबलमभितोऽपि विप्रकीर्णमिव भुवि निपत्य गगनतलं, परिवहदिव भिन्नमर्यादमर्णवस्रोतः, शतशः परीक्षितमपि सौहार्दे, सहस्रशो गृहीतजयमपि
समरसंमर्दे, कदाप्यशिक्षितायुधग्रहमिव, अनाकर्णितसंग्रामसङ्कथमिव,
 
[Commentary]
 
गमनमनीहमानस्सन् शत्रुप्रयुक्तबाणान् स्वनामसाम्यात् स्वमित्राणीति ज्ञात्वा तानेव प्रविवेशेत्याह ॥ वल्मीकेष्विति ॥ वल्मीकेषु नाकुषु । 'वामलूरुश्च नाकुश्च वल्मीकं पुन्नपुंसकम्' इत्यमरः । अहयः सर्पाः । 'अहिर्वृत्रासुरे शत्रौ सर्पे च' इति विश्वः । मुनयश्च वसन्ति कान्तारेषु दुर्गेषु, कन्दरेषु दरीषु, लवणे सिन्धौ समुद्रे च, घोराः भयङ्कराः, समीराशना वायुभक्षकाः अजगरा इति शेषः । वसन्ति, क्व वा सुस्थितिः सुखस्थितिः स्यात् । परैश्शत्रुभिः । 'परोऽरिपरमात्मनोः' इति विश्वः । भुवने लोके । आक्रान्ते सति । तृणमपि स्प्रष्टुं स्पर्शनं कर्तुं, मया न शक्यं, किं कर्तव्यमितीव, आशुगो वायुः दैत्यानां आशुगेषु आशुगत्वजातिविशिष्टेषु । 'आशुगौ वायुविशिखौ' इत्यमरः । व्यलीयत
गूढमनुप्रविवेशेत्यर्थः । परपरिभवदशायां को वाऽन्यस्सहायो भवतीति भावः । कान्दिशीकयोधसङ्घं दृष्ट्वा इन्द्रश्चिन्तयामासेत्याह ॥ अनन्तरमिति ॥ अतर्कितमनुत्प्रेक्षितं यथा तथा, अनिमित्तं अज्ञातनिमित्तं यथा तथेत्यर्थः । अपध्वंसमानं च्युतमित्यर्थः । भुवि निपत्य अभितोऽपि विप्रकीर्णं गगनतलमिव स्थितं, निर्मर्यादावस्थितत्वादिति भावः । भिन्ना त्यक्ता मर्यादा वेला, यस्मिन् कर्मणि तद्यथा तथा । परिवहत् प्रवहत्, अर्णवस्य स्रोतः अम्बुसरणमिव स्थितं, निर्निरोधत्वादिति
भावः । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः । एवंभूतमसुराणां बलं, सौहार्दे विषये, शतशः बहुशः । 'बह्वल्पार्थात्' (पा. सू. ५.४.४२) इत्यादिना शस्प्रत्ययः । परीक्षितं दृष्टमपि, समरस्य सम्मर्दे, प्रघट्टके सम्बन्धे, सहस्रशः । [^१]पूर्ववत् प्रत्ययः ।
 
[^१] 'बह्वल्पार्थाच्छस्कारकादन्यतरस्याम्' (पा.सू. ५.४.४२) इति शस्प्रत्ययः । बहूनि ददाति = बहुशः, अल्पानि ददाति = अल्पशः, बहुभ्यो ददाति = बहुशः, अल्पेभ्यो ददाति = अल्पशः, अर्थग्रहणात् पर्यायेभ्यः विशेषेभ्यश्च, भूरिशो ददाति, त्रिशो ददाति । कारकग्रहणात् बहूनां स्वामी अल्पानां स्वामी" इत्यत्र न भवति ॥ पूर्ववत् = शतशः इत्यत्रेव, सहस्रशः इत्यत्रापि तेनैव सूत्रेण शस्प्रत्ययः इत्यर्थः ॥