This page has been fully proofread once and needs a second look.

'सान्नाय्यं वा तत्प्रभवत्वात्' इति ।
 
सान्नाय्यं दधिपयसी । तत्र पशुयागः पयोयागप्रकृतिकः साक्षात्पशुप्रभ-
वत्वात् । अतश्चोदकप्राप्तैस्तद्धर्मैर्निराकाङ्क्षत्वान्न पशुयागे धर्माणां प्रकरणं
विनियोजकम्; किं तु स्थानमेव । तदेवं निरूपितः संक्षेपतः स्थानविनियोगः ।
 
तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोदेशसामान्यल-
क्षणः संबन्धः प्रत्यक्षः । समाख्याविनियोगे तु संबन्धो न प्रत्यक्षः । पदार्थ-
योर्भिन्नदेशत्वात् । न च सा संबन्धवाचिका । यौगिकानां शब्दानां द्रव्यवा-
चकत्वेन संबन्धावाचकत्वात् । तथा हि--समाख्या संबन्धसामान्यवाचिका
 
[commentary]
 
यति-सान्नाय्यमिति । वाशब्दः पक्षव्यावर्तकः । पशुस्सान्नाय्यमेव प्रकृतित्वेन
गृह्णीयात्, कुतः ? तत्प्रभवत्वात् पशुप्रभवत्वात्, पशुरपि पशुजन्यः, सान्नाय्यमपि
पशुजन्यमिति सूत्रार्थः । सान्नाय्ययागस्य दधिपयोयागोभयरूपत्वेन दधियागप्रकृतिकत्वम् ? उत पयोयागप्रकृतिकत्वम् ? अथ वा सौर्ये आग्नेयवदुभयधर्मप्रवृत्तिः ? अत आह--
तत्रेति । पयोयागप्रकृतिक इति । दध्नस्तु पयसा व्यवहितत्वादिति भावः । ननु
पाठसादेश्यादेरप्युभयाकाङ्क्षान्यतराकाङ्क्षारूपभेदसस्वात् तत्स्वरूपं तदुदाहरणादिकं
च कुतो नोक्तम् ? अत आह--सङ्क्षेपत इति । यत् प्रसिद्धमवश्यनिरूपणीयं तद-
स्माभिरत्र निरूपितम् । अधिकमन्यतोऽवगन्तव्यमिति भावः । अत्र च पशुधर्माणां
'पशुमुपाकरोति, यूपे पशुं नियुञ्जीत, पशुं पर्यग्नि करोति, इत्यादिभिर्वाक्यैः
श्रुत्यैव पश्वर्थत्वेन विनियोगात् न पुनः स्थानविनियोज्यत्वसम्भवः, तथाप्यपूर्वसाधनत्व-
लक्षणातात्पर्यग्राहकत्व एव भाक्तो विनियोजकत्वव्यवहार इति द्रष्टव्यम् ॥
 
एवं स्थानं निरूप्य तद्गतं समाख्यातः प्राबल्यं निरूपयति--तच्चेति । देशसामा-
न्यलक्षण इति । पाठतोऽनुष्ठानतो वा पदार्थयोरेकदेशस्थत्वस्यैव स्थानपदार्थत्वेन
निरूपितत्वादिति भावः । एवञ्च स्वाध्यायपाठादनुष्ठानाद्वा उभयोः सम्बन्धोऽवगम्यत
एवेति न समाख्यावदत्र सम्बन्धस्य कल्पनीयतेति मनसि निधायाह--प्रत्यक्ष इति ।
भिन्नदेशत्वादिति । एकस्य मन्त्रकाण्डादौ सत्वादपरस्य च ब्राह्मणगतत्त्रादित्यर्थः ।
ननु कृत्तद्धितसमासेषु भावप्रत्ययेन सन्बन्धाभिधानात् भावप्रत्ययवाच्यस्य प्रकृतिवाच्य-
त्वनियमात् समाख्याया एव सम्बन्धवाचित्वं सिध्यतीति तत्रापि प्रत्यक्ष एव सम्बन्ध
इत्यत आह--नचेति । यथा च कृत्तद्धितसमासेषु न सम्बन्धवाचित्वं तथाऽरुणाधिक-
रणे वार्तिककारैर्निपुणतरमुपपादितम् । ननु यौगिकशब्देषु सर्वत्र सम्बन्धस्य प्रतीय-
मानत्वात् सम्बन्धवाचित्वं तेषामवश्यमभ्युपेयमित्यत आह--यौगिकानामिति । सम्ब-
न्धावाचकत्वमेवोपपादयति--तथा हीति । अयं भावः--समाख्या सम्बन्धत्वेन रूपेण
सम्बन्धं बोधयति ? उत संयोगसमवायादिविशेषरूपत्वेन ? यदि तावत् सम्बन्धत्वेन रूपेण,
ततः सामान्यस्य प्रवृत्यजनकत्वेन तन्मात्रोक्तौ फलविशेषो न स्यात् । किञ्च सामान्यो-
क्तौ सर्वेषां सम्बन्धानां सम्बन्धत्वाविशेषात् तद्वाचकानां सर्वेषामपि यौगिकशब्दानां पर्या-
यत्वं स्यात् । अथ सम्बन्धविशेषोऽभिधीयेत, ततस्तस्य स्वतो विशेषाभावात् सम्बन्धि-
कृत एव भेदोऽभ्युपगन्तव्यः । सम्बन्ध्यपि चानभिघीयमानो न शक्नोत्यभिधीयमानं सम्ब-