2023-02-20 11:47:23 by ambuda-bot
This page has not been fully proofread.
७६
मीमांसान्यायप्रकाशः
[ स्थान-
टोमार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमयागत्वेन पशुधर्मग्रह-
णेऽयोग्यत्वात् । अतः 'नर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति न्याः
यात् स्थानात्पशुयागार्थत्वमेव धर्माणां युक्तम् ।
न च तेषां तदर्थवं प्रकरण । देव कि न स्यादिति वाच्यम् । अग्नीषोमी.
यकथंभावाकाङ्क्षायाः क्लृप्तोपकारैः प्राकृतधर्मं रेवोपशान्तत्वात् । स हि सन्ना.
व्ययागप्रकृतिकः, उभयोः पशुप्रभवत्व (१) सामान्यात् । तदुक्तम्-
न चेति । पशुधर्मप्रहण इति । उपाकरण नियोजनादीनां पशुसंवन्धित्वेन श्रुतानां
सोमलताद्रव्यके यागे साक्षादुपयोगाभावादिति भावः । नच "आनर्थक्यात्तदङ्गेष्वि"
ति न्यायेन ज्योतिष्टोमाङ्गभूतेषु अग्नीषोमीयसवनीयानुबन्ध्यरूपेषु पशुयागेषु श्रिध्वष्यव-
तारोऽस्त्विति वाच्यम् । प्रकरणं हि प्रथमतो धर्मग्रहणाय प्रवृत्तं साक्षात् ग्रहणायोगात्
परावर्तते । यदि तावत् न कश्चिदपि पशुधर्मान् प्रहीतुं शक्नुयात् तदा गत्यभावात् परा-
बृत्तमपि प्रकरणं पुनरभिमुखीभूय धर्मान् गृह्णातीति वक्तव्यम् । नचैतदस्ति । स्थानाद-
ग्नीषोमीयार्थत्वसम्भवादिति । अत इति । सोमयागस्य पशुधर्मग्रहणे अयोग्यत्वादि ·
स्यर्थः । ननु सोमयागस्य स्वयमयोग्यत्वेऽपि तदङ्गभूतपशुष्ववतारसम्भवेन कुतो न
प्रकरणग्राह्यतेत्यत आह - आनर्थक्यप्रतिहतानामिति । यदि प्रकरणात् ज्योतिष्टो-
मार्थत्वं तहांनन्यथासिद्धस्य स्थानस्यानर्थक्यं भवतीति स्वतो दुर्बलमपि स्थानमानर्थक्य
प्रतिहतत्वात् प्रबलं सत् अन्यत्र चरितार्थत्वात् दुर्बलं प्रकरणं बाघत एवेत्यर्थः । न्याया..
दित्यनन्तरं चकारोऽध्याहर्तव्यः ।
-
ननु पशुयागस्य धर्माकाङ्क्षत्वात् धर्माणाञ्च प्रयोजनाकाङ्क्षत्वादुमयाकायैव पर
श्वरं सम्बन्धोऽस्तु किमन्यतराकाङ्क्षयेति शङ्कते - न चेति । क्लृप्तोपकारैरिति । श्रयं
भावः - भावना न स्वरूपतः पदार्थानाकाङ्क्षति । किन्तूपकारजनकत्वेन । निरूपितमेत-
दघस्तात् । एवञ्चाग्नीषोमीयभावनायाः कथंभावाकाङ्क्षायां प्रकृतावुपकारजनकश्वेन क्लृ-
तानां धर्माणामेव दूरस्थानामप्यति देशोपस्थितानां प्रथममन्वयो वाच्यः । अन्वितेषु च
तेषु तैरेवाकाङ्क्षाशान्तेर्नोभ्याकाङ्क्षा सम्भवति । अङ्गानां विकृतिसन्निधिपाठवैयर्थ्यमिया तु
तदाकाङ्क्षाबलादेव विकृतेराकाङ्क्षामुत्थाप्य तरसम्बन्धो वाच्यः । अतश्च सिद्धमन्यतराका.
बृक्षारूपस्थानविनियोज्यत्वमिति । ननु स्यादेतदेवं यदि विकृतिश्वमग्नीषोमीयस्य
स्यात्, स एव खलु सर्वेषां पशुयागानां प्रकृतिभूतः, श्रत श्राहस होति । यद्यप्यनी.
षोमीययागः सर्वपशुयागप्रकृतिभूतः तथापि तत्र कतिपयाना मेवाज्ञानां पाठात् देवतावाह-
नादिसन्निपत्योपकारकविषयेऽस्त्येव तस्याकाङ्क्षा । किञ्च यत्रायं (२) पशुरुन्नः क्रय-
सन्निधौ न तत्र धर्मा श्राग्नाताः । ते त्वौपवसथ्येऽहन्याम्नाताः । तत्रोत्पन्ने तिकर्तव्य-
ताकाङ्क्षा न प्रदेशान्तरस्थैर्धमैश्शाम्यतीति तस्यान्यतो धर्मग्राहकत्वावश्यंभावे साह
श्यात् दर्शपूर्णमासान्तर्गंतसान्नाय्यतो धर्मातिदेश इति भावः । किं तत् सादृश्यम् ?
श्रत श्राह- पशुप्रभवत्वसामान्यादिति । सान्नाय्यंषिकृतित्वे श्राष्टमिकं सूत्रं प्रमाण-
१. पशुप्रभवद्रव्यरम
२. अपूर्णतया विहित इत्यर्थः ।
13