This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 

 
तानि तेषां विकृत्यर्थत्वं सन्निधिपाठात् । तेषां हि कैमर्थ्याकाङ्क्षायां फलवद्वि-
कृत्यपूर्वमेव भाव्यत्वेन संबध्यते, उपस्थितत्वात् । अत एव तेषु न विश्वजि
न्यायावतारः । स्वतन्त्र फलार्थवे विकृतिसन्निधिपाठानर्थक्यापत्तेश्च ।
 
पशुधर्माणाम‍नोषामी यार्थत्वमनुष्ठानसादेश्यात् । ओपथ्येऽह्नि श्र-
ग्नीषोमोयः पशुरनुष्ठीयते, तस्मिन्नेव दिने ते धर्माः पठ्यन्ते । अतस्तेषां
कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्चपूर्वमेव भाव्यत्वेन संवध्यते । अतो
युक्तमनुष्ठान सा देश्यात्तदर्थत्वं तेषाम् ।
 
न च पाठसा देश्यादेव तरिकं न स्यादिति वाच्यम् । अग्नीषोमीयस्य
पशोः क्र्यसन्निधौ पाठात् । न च क्रयसन्निधौ तस्य पाठे तदनुष्ठानमपि तत्र
स्यादिति वाच्यम् । 'स एष द्विदैवत्यः पशुरोपवखथ्ये ऽहन्यालब्धव्यः' इति
वचनात्तदनुपपत्तेः । न च स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योति-
यौचित्यात् । विकृतेश्च स्वतः फलत्वाभावादित्याशङ्कयाह - फलवद्विकृतीति । विकृ·
त्यपूर्वस्य स्त्रतः फलरूपत्वाभावेऽपि फलवत्वात् तदन्वयेऽपि परम्परयाऽङ्गानां फलवत्वं
लभ्यत एवेति भावः । नर्थक्यापत्तेश्चेति चकारेणोपस्थितपरित्यागे प्रमाणाभा-
वोऽपि पूर्वोक्तरसमुचितः ॥
 
एवं द्विविधमपि पाठसादेश्यं निरूप्याधुनाऽनुष्ठानसादेश्यं निरूपयति- पशुधर्मा.
णामिति । उपाकरण, नियोजन, पर्यग्निकरण, संज्ञपनादीनां पशुयागाज्ञानामित्यर्थः ।
यो दीक्षितो यदग्नीषोमोयं पशुमालभते" इति विहितो योऽग्नीषोमदेवताकः
पशुयागः तदर्थत्वमित्यर्थः । अनुष्ठानसादश्यमेव निरूपयति - श्रौपवसथ्य इति ।
औपवसथ्यमहः दीक्षा दिनतः चतुर्थमहः । दिन इति । तस्मिन् दिनेऽनुष्ठेयत्वेन पठि-
तानां धर्माणां मध्ये उपाकरणादयोऽपि पठिता इत्यर्थः ।
 
-
 
ननु अग्नीषोमीयस्यौपवसथ्येऽह्नि अनुष्ठाने तलाठेनापि तत्रैव भाव्यम् । एवञ्च
प्रबलेन पाठसादेश्येनैव धर्माणां पश्वपूर्वार्थत्वे सम्भवति किमर्थं दुर्बलप्रमाणाश्रयण मिति
शङ्कते - न चेति । तत् अग्नीषोमीयार्थत्वम् । अथवा ननु 'आग्नेयमग्निष्टोम
आलभत' इत्यस्य सवनीय विधायकस्यौपवसथ्येऽहन्येव पाठात् प्रबलेन_पाठसादेश्येन
घर्माणां सबनीयपश्वपूर्वार्थत्वे सम्भवति किमर्थ दुर्बज्ञेनानुष्ठानसा देश्येनाग्नीषोमीयार्थं
श्वमङ्गौक्रियते इति शङ्कतेन चेति । अस्मिन् पक्षे तदित्यनेन सामान्यतः पश्चपूर्वस्य
ग्रहणम् । अथवा अग्नेय एवाग्नीषोमीय भ्रान्ध्या पृच्छति –नचेति । य श्रौपवसथ्येऽ.
इनि पठितः स नाग्नीषोमीयः, स तु क्रयसन्निधौ पठितः, अतः पाठसादेश्याभावात् न
तेनाङ्गत्वमित्यर्थः । क्रय सन्निधाविति । 'अरुणया पिादयेत्यादिवाक्यैः दीक्षणी-
• योत्तरदिनेऽनुष्ठेयत्वेन विहिता ये सोमक्रयाः तत्सन्निधावित्यर्थः । ननु यस्य यत्र पाठ.
स्तत्रैव तस्यानुष्ठानमुचितमिति अग्नीषोमीयस्य कसन्निधौ पाठे तत्रैव तस्यानुष्ठानापत्या
पशुधर्मेस्सहानुष्ठानसादेश्यस्पाप्यभावात् कथं तद्ग्राहकत्वमिति शङ्कते-नचेति । ननु
एषां ज्योतिष्ठोममहाप्रकरणे पाठात् प्रकरणात् तदर्थस्वमेव कुतो न स्यात् इत्याशङ्कते-