This page has been fully proofread once and needs a second look.

मोमांसान्यायप्रकाशः
 
[ स्थान-
स्थानं क्रमश्चेश्य त्यनर्थान्तरम् । पाठलासादेश्यमपि द्विविधम् --यथासङ्ख्य
-
पाठः सन्निधिपाठश्चेति । तत्र 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्, 'वैश्वानरं

द्वादशकपालं निर्वपे'दित्येवं क्रमविहितेष्टिषु 'इन्द्राग्नी रोचना दिव' इत्या
दो

दी
नां याज्यानुवाक्यामन्त्राणां यथासङ्ख्यं प्रथमस्य प्रथमं द्वितीयस्य द्विती-

यमित्येव (वं [^)] यो विनियोगः स यथासङ्गथपाशख्यपाठात् । प्रथमपठितमन्त्रस्य हि

कैमर्थ्याकाङ्क्षायां ([^)] प्रथमतो विहितं कर्मैव प्रथममुपतिष्ठते, समानदेशत्वात् ।

यानि तु वैकृतान्यज्ञानि(ङ्गानि [^)] प्राकृताङ्गाननुवादेन विहितानि सं<error>दे</error><fix>दं</fix>शापति-

 
[commentary]
 
गम्यत्वात् सादेश्यादेश्च शब्दत्वाभावात् न विनियोजकत्वम्, प्रतश्च तेषां प्रयोजनाका
ह्वा
-
ङ्क्षा
यां विश्वजिन्न्यायेन स्वर्गार्थत्वमेव युक्तमित्यत ग्रा--विनियोगस्य कारणमिति ।

यद्यपि सादेश्यस्य न शब्दरूपत्वं, तथापि सन्निधिपठितानामङ्गानां प्रधानोपकारसम्पाद-

कत्वे सम्भवति न करुल्पनागौरवापादकस्वर्गफलकत्वं युक्तम् । अतश्च प्रधानार्थत्वे वर्णनीये

पाठसादेश्यादेर्युक्चैतैव नियामकतेति भावः । श्लोकस्थक्रमशब्दस्यार्थान्तरपरत्वभ्रमं वार-

यितुमाह - --स्थानमिति । अनर्थान्तरमिति । पर्याय इत्यर्थः । ऐन्द्राग्न मे कादशक.
-
पालमिति । अस्ति काम्येष्टिकाण्डसमाख्यातः फलार्थमिष्टीनां विधायको ब्राह्मणभागः ।

अस्ति च काम्येष्टियाज्यानुवाक्याकाण्डसमाख्यातो मन्त्रभागः । तत्र काम्येष्टि काण्डे

येष्टिः प्रथमं पठिता तस्याः काम्येष्टियाज्यानुवाक्याकाण्डगतं प्रथमं याज्यानुवाक्यायुगल.
-
मङ्गम्, द्वितीयस्या इष्टेः द्वितीयं युगलमङ्गमित्येवंरूपेण यः क्रमः स यथासंख्यपाठादि ·

त्यर्थः । किमत्र नियामकम् १ त? अत आ --प्रथमेति । कैमर्थ्याकाङ्क्षायां प्रयोजना
-
काङ्क्षायाम् । समानदेशवत्वादिति । उभयोः प्रथमपठितत्वेन प्राथम्यरूपैक देशस्थत्वा -

दित्यर्थः । इदमुदाहरणं मैत्रायणीयशा खानुरोधेन, तत्रैव द्वितीयकाण्डे प्रथमप्रपाठके

प्रथमेऽनुवाके "ऐन्द्राग्न मेकादशकपालं निर्वपेत् यस्य सजाता वीयायुः" इत्यै-

न्द्राग्नेष्टिं विधाय द्वितीयेऽनुवाके वैश्वानरेष्टेविंर्विधानात् । एवं चतुर्थकाण्डे एकादशप्रपा-

ठके ऐन्द्राग्नमन्त्रानाम्नाय वैश्वानरमन्त्राणामाम्नानात् ॥
 
-
 
G
 

 
एवं यथाक्रमपाठं निरूप्येदानीं सन्निधिपाठं निरूपयति- यानि स्-यानि त्विति । वैकृतानि

विकृतिर्सान्निधौ पठितानि न वैकृता <flag>त्वमात्रेण</flag> सन्निधिग्राह्यत्वं भवति । श्रौदुम्बरत्व शरा-

देवेंर्वैकृताङ्गत्वेऽपि प्रकरणग्राह्यस्वानपायात् ।त्वानपायात् । अत आह - --प्राकृताङ्गाननुवादेनेति । ते

हि प्राकृतखादिरत्वबर्हिःकार्यानुवादेन विहिता इति न तत्रातिप्रसङ्ग इति भावः । ननु

प्राकृताशाङ्गाननुवादेन विहितानां विदेवनादीनां प्रकरणग्राह्यत्वमस्त्येव, अत आह- सन्द
-सन्दं-
शापतितानीति । विदेवनादयो हि सन्दंशपतिता इति पूर्वमेवोक्तम् । श्रुतो न तत्राति-

प्रसङ्गः । ननु नाजाङ्गानां विकृत्यर्थत्वं भवितुमर्हति । तेषां फलाकाङ्क्षासत्वेन फलेनैवान्व-
0
 

 
[^
.] यत्तच्छब्दौ न स्तः । [^.] प्रथमविहितं
 

 
[^
. यश्वत्र क] यत्त्वत्र क्वचित् पुस्तकेषु प्राकृताङ्गानुवादेना विहितानि इति पाठो दृश्यते । व्याख्यातं च कैश्चित्

तमेव पाठमवलव्म्ब्य, तन्न युक्तम् । न ह्यत्राविहितस्याङ्गत्वं वक्तुं प्रवृत्तिर्ग्रन्थकारस्य । अतो यथोक्त एव

पाठस्साधीयान् ।