This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
७१
 
बा
षात्सर्वेष्विष्टिपशुसोमेषु विद्यते । तत्परतन्त्रत्वाद्राजसूयपदमपि तानेव वदति

 
न च राजसूयशब्दस्य राजा सूयते यत्रेति व्युत्पत्या सोमाभिषवनिमि-

तत्वात्तस्य च 'सोममभिषुणोतीति वाक्येन सोमयागेऽवगतत्वात्त द्वाचित्व-

मेव, नेष्टिपशुवाचित्वमिति चाव्वाच्यम् । न ह्यभिषेचनीयादिसोमयागेष्वभिषवः

प्रत्यक्षेण वाक्येन चोदितोऽस्ति, तद्वाक्यस्य ज्योतिष्टोमे सत्वात् । श्रुतिदेशा
-
त्
तत्संबन्धोऽवगत इति चेन्न । प्रतिदेशस्य फलसंबन्धोत्तरकालीनस्त्वेन 'राज-

सूयेन स्वाराज्यकामो यजेते 'त्येतद्वाक्यार्थावगत्युत्तरकालीनत्वात् । अनेन हि

वाक्येन फलसंबन्धे वोबोधिते पश्चात्कथंभावाकाङ्क्षायामतिदेशकल्पनात् । श्रत
अत-
स्ततः प्रागेवैतद्वाक्यार्थो वर्णनीयः । तदा चाभिषवस्यानवगतत्वाद्राज
-
सूय पदमप्रसिद्धार्थमेव । अत एव राजसूयपदमव्युत्पन्नमश्वकर्णशब्दवदित्युक्तं

सांप्रदायिकैः ।
 

 
एवं चाप्रसिद्धार्थत्वेनाख्यात परतन्त्रत्वाद्वाजसूय पदेनेष्टिपशुसोमयागा उ
व्
-
च्
यन्ते । ते च तैस्तैः प्राकृतैर्धमैं निराकाङ्क्षा इति न प्रकरणं विदेवनादीनां

राजसूये विनियोजकम्, उभयाकाङ्क्षाया अभावात् । न च प्रातिस्विकरूपै-

 
[commentary]
 
अप्रसिद्धत्वादित्यर्थः । तच्च प्रख्यातं च धातुरिति यावत् । तानेव इष्टिपशुसोमरूपान्

सर्वानपि यज्यर्थान् ।
 
-
 

 
इदानीमवयवव्युत्पत्त्या राजसूयपदस्य सोमयागपरत्वमात्रमाशङ्कते--नचेति । राजा

सोमः । सूयते निष्पीड्यते । तद्बाचित्वमेव अभिषेचनीयादिसन्निहितसोमयागवा.
-
चित्वमेव । परिहरति - --न हीति । तद्वाक्यस्य भिषवाक्यस्य । ज्योतिष्टोमे

त्त्वादिति । तया च प्रकृतिभूतज्योतिष्टोमप्रकरणस्थस्यानानुपस्थितेः तमादाय न

राजसूय शब्दार्थ वर्णनमुपपत्तिमदिति भावः । फल सम्बन्धोत्तरकालीनत्वेनेति । प्रथ-

मतः फलाकांक्षा ततः करणाकांक्षा, अनन्तरं कथम्भावाकाङ्क्षा इत्येवाकाङ्क्षाक्रमात् ।

एवञ्च एतद्वाक्यावगत्युत्तरकालीनाया श्राकाङ्क्षाया एतद्वाक्यार्थावगमदशायामनुपस्थित
-
त्वेन तदाका वृङ्क्षापूरकपदार्थोपस्थितेः तत्प्रापकातिदेशस्य च दुदूरापेतत्वात् तन्निमित्ती-

कृत्य राजसूयपदस्य नामधेयत्वकथनं न युक्तिसहमिति भावः । अस्मिन्नर्थेऽभियुक्तोक्तिं

प्रमाणयति--अत एवेति । श्रश्वक र्णशब्दवदिति । अश्वकर्णशब्दो यथा व्युत्प
-
न्
नप्रातिपदिकं वृक्षविशेषे रूढः, एवं राजसूयशब्दीदो रूढ इत्यर्थः ।
 
-
 

 
राजसूयपदस्याख्यातपरतन्त्रत्वमुपसंहरति - 0--एवञ्चेति । तैस्तैः प्राकृतैरिति ।
दृ

ष्टीनां दर्शपूर्णमासतोऽतिदिष्टै रौरैष्टिकैः, पशूनामग्नीषोमीयतोऽतिदिष्टैः पाशुकैः, सोमया-

गानां च ज्योतिष्टोमतोऽतिदिष्टैस्सौमिकैश्च धर्मेमैश्शान्ताका बृङ्क्षत्वादिस्त्यर्थः । ननु येन

रूपेण फले विनियोगः तेनैव रूपेण धर्माकाङ्क्षा युक्ता; अतश्च प्रातिस्विकरूपेणातिदि-

ष्टैर्धमैंःर्मैः प्रातिस्विकरूपेणाकाङ्क्षायाश्शान्त स्त्वेऽपि 'राजसूयेन स्वाराज्यकामो यजेते'

ति राजसूयत्वधर्म पुरस्कारेणैव फले विनियोगात् तेनापि रूपेणा काच्चाकाङ्क्षायास्सत्त्वात् तस्याश्च

कैरपि धर्मेमैरशान्तत्वात् सम्भवस्त्येवोभयाकाङ्क्षेत्याशङ्कते--नचेति । प्रमाणाभावादिति ।

अनुमत्यादिवाक्यै रुत्पन्नानामेव भावनानां राजसूयवाक्ये फलसम्बन्धबोधनात् तदपेक्षया