2023-02-20 11:47:21 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचनी व्याख्यासंवलितः
७१
बात्सर्वेष्विष्टिपशुसोमेषु विद्यते । तत्परतन्त्रत्वाद्राजसूयपदमपि तानेव वदति।
न च राजसूयशब्दस्य राजा सूयते यत्रेति व्युत्पत्या सोमाभिषवनिमि-
तत्वात्तस्य च 'सोममभिषुणोतीति वाक्येन सोमयागेऽवगतत्वात्त द्वाचित्व-
मेव, नेष्टिपशुवाचित्वमिति चाव्यम् । न ह्यभिषेचनीयादिसोमयागेष्वभिषवः
प्रत्यक्षेण वाक्येन चोदितोऽस्ति, तद्वाक्यस्य ज्योतिष्टोमे सत्वात् । श्रुतिदेशा
तत्संबन्धोऽवगत इति चेन्न । प्रतिदेशस्य फलसंबन्धोत्तरकालीनस्वेन 'राज-
सूयेन स्वाराज्यकामो यजेते त्येतद्वाक्यार्थावगत्युत्तरकालीनत्वात् । अनेन हि
वाक्येन फलसंबन्धे वोधिते पश्चात्कथंभावाकाङ्क्षायामतिदेशकल्पनात् । श्रत
स्ततः प्रागेवैतद्वाक्यार्थो वर्णनीयः । तदा चाभिषवस्यानवगतत्वाद्राज
सूय पदमप्रसिद्धार्थमेव । अत एव राजसूयपदमव्युत्पन्नमश्वकर्णशब्दवदित्युक्तं
सांप्रदायिकैः ।
एवं चाप्रसिद्धार्थत्वेनाख्यात परतन्त्रत्वाद्वाजसूय पदेनेष्टिपशुसोमयागा उ
व्यन्ते । ते च तैस्तैः प्राकृतैर्धमैं निराकाङ्क्षा इति न प्रकरणं विदेवनादीनां
राजसूये विनियोजकम्, उभयाकाङ्क्षाया अभावात् । न च प्रातिस्विकरूपै-
अप्रसिद्धत्वादित्यर्थः । तच्च प्रख्यातं च धातुरिति यावत् । तानेव इष्टिपशुसोमरूपान्
सर्वानपि यज्यर्थान् ।
-
इदानीमवयवव्युत्पत्त्या राजसूयपदस्य सोमयागपरत्वमात्रमाशङ्कते-नचेति । राजा
सोमः । सूयते निष्पीडयते । तद्बाचित्वमेव अभिषेचनीयादिसन्निहितसोमयागवा.
चित्वमेव । परिहरति - न हीति । तद्वाक्यस्य भिषवाक्यस्य । ज्योतिष्टोमे
सत्वादिति । तया च प्रकृतिभूतज्योतिष्टोमप्रकरणस्थस्यानानुपस्थितेः तमादाय न
राजसूय शब्दार्थ वर्णनमुपपत्तिमदिति भावः । फल सम्बन्धोत्तरकालीनत्वेनेति । प्रथ-
मतः फलाकांक्षा ततः करणाकांक्षा, अनन्तरं कथम्भावाकाङ्क्षा इत्येवाकाङ्क्षाक्रमात् ।
एवञ्च एतद्वाक्यावगत्युत्तरकालीनाया श्राकाङ्क्षाया एतद्वाक्यार्थावगमदशायामनुपस्थित
त्वेन तदाका वृक्षापूरकपदार्थोपस्थितेः तत्प्रापकातिदेशस्य च दुरापेतत्वात् तन्निमित्ती-
कृत्य राजसूयपदस्य नामधेयत्वकथनं न युक्तिसहमिति भावः । अस्मिन्नर्थेऽभियुक्तोक्तिं
प्रमाणयति-अत एवेति । श्रश्वक शब्दवदिति । शब्दो यथा व्युत्प
नप्रातिपदिकं वृक्षविशेषे रूढः, एवं राजसूयशब्दी रूढ इत्यर्थः ।
-
राजसूयपदस्याख्यातपरतन्त्रत्वमुपसंहरति - एवञ्चेति । तैस्तैः प्राकृतैरिति ।
दृष्टीनां दर्शपूर्णमासतोऽतिदिष्टै रौष्टिकैः, पशूनामग्नीषोमीयतोऽतिदिष्टैः पाशुकैः, सोमया-
गानां च ज्योतिष्टोमतोऽतिदिष्टैस्सौमिकैश्च धर्मेश्शान्ताका बृक्षत्वादिस्यर्थः । ननु येन
रूपेण फले विनियोगः तेनैव रूपेण धर्माकारक्षा युक्ता; अतश्च प्रातिस्विकरूपेणातिदि-
ष्टैर्धमैंः प्रातिस्विकरूपेणाकाङ्क्षायाश्शान्त स्वेऽपि 'राजसूयेन स्वाराज्यकामो यजेते'
ति राजसूयत्वधर्म पुरस्कारेणैव फले विनियोगात् तेनापि रूपेरणा काच्चायास्सवात् तस्याश्च
कैरपि धर्मेरशान्तत्वात् सम्भवस्येवोभयाकाङ्क्षेत्याशङ्कते-नचेति । प्रमाणाभावादिति ।
अनुमत्यादिवाक्यै रुत्पन्नानामेव भावनानां राजसूयवाक्ये फलसम्बन्धबोधनात् तदपेक्षया