This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ प्रकरण-
दर्शपूर्णमासपदं च का निमित्तम्, तद्योगश्चाग्नेयादिषुत्पत्ति वाक्यैरव-
गतः । अतस्तद्वाचित्वेन दर्शपूर्णमासपदं प्रसिद्धम् । न च आग्नेयादीनां
बहुत्वाद् द्विवचनान्तत्वमस्यानुपपन्न मिति वाच्यम् । विद्वद्वाक्यद्वयसिद्धस
मुदायद्वयाभिप्रायेण तदुपपत्तेः । एवं च दर्शपूर्णमासपदस्याग्नेयादिवाचि-
वे निर्णते यजेतेत्याख्यातमपि तानेव वदति । न हि तदुक्तौ स्वार्थत्यागो
भवति । राजसूयपदं त्वनिर्णीतार्थम्, अतस्तदाख्यातपरतन्त्रमेव, तथ्याविशे-
७०
 
अर्थविशेषवाचित्वेन नियतं तत् प्रसिद्धपदसमभिव्याहारेऽपि न स्वार्थात् परिहीयते इति
वार्तिकार्थः । तथा च दर्शपूर्णमासपदस्य प्रसिद्धार्थत्वेन युक्तं न तदाख्यातपरतन्त्रमिति ।
राजसूयपदस्य तु प्रसिद्धार्थत्वात् प्रसिद्धाख्यातानुरोधेनैवार्थनिर्णय इत्याख्यातपरतन्त्र-
तैवेति भावः । श्रन्न मूले व्याख्याने च सर्वत्राख्यातपरतन्त्रेत्यत्राख्यातपदेन धातुरेवोच्यते,
न विभक्तिरिति ध्येयम् । कथं दर्शपूर्णमासपदं प्रसिद्धम् ? ग्राह-दर्शति । उत्पत्ति-
वाक्यैरिति । श्राग्नेयादिवाक्यैरित्यर्थः । तद्बाचित्वेन उत्पत्तिवाक्यावगतकालविशिष्टा.
ग्नेयादिकर्मषट्कवा चित्वेन । दर्शपूर्णमासपदस्याग्ने या दिया गषटकवा चित्वे द्विवचनानु.
पपत्ति शङ्कते. --न चेति । परिहरति - विद्वदिति । "य एवं विद्वान् पौर्णमासीं
यजते" 'य एवं विद्वानमावास्यां यजते' इति वाक्यद्वयेत्यर्थः । विद्वपदघटितत्वा
चानयोर्विद्वद्वाक्यता । समुदायद्वयाभिप्रायेणेति । एकवचनान्तेन पौर्णमासीप देन
तत्कालिका यागास्तन्त्रेणानूद्यन्ते । तदभिधानरूपं एकमभिधानमवलम्ब्य तेषामेकः समु-
दायः सिध्यति, एवममावास्यापदेनापीति समुदायद्वयस्य सिद्धत्वात् तदभिप्रायेण फल
वाक्ये द्विवचनमित्यर्थः । ननु विद्वद्वाक्ये पौर्णमास्यमावास्याशब्दाभ्यामेव समुदायद्वया-
नुवादात् कथं फलवाक्यगतदर्शपूर्णमासशब्दाभ्यां समुदायद्वयमणमिति वाच्यम्। 'दर्शो
वा पतयोः पूर्वः, पूर्णमास उत्तरः, अथ यत्पौर्णमास पूर्वामारभते, तद्यथा-
पूर्व क्रियते' तत्पूर्वमारभमाणस्सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपाल
ममावास्या वै सरस्वतो, पूर्णमासः सरस्वान् तावेव यथापूर्व कल्पयित्वाss.
रभते, "इत्यत्र दर्शो वा एतयोरिति दर्शशब्द निर्दिष्टस्य "अमावास्या वै सरस्वतो"
इत्यमावास्याशब्देन पुनः परामर्थात्, अमावास्यादर्शशब्दयोः पर्यायवावगमात् "पो.
र्णमास पूर्वामारभते" इति पौर्णमासी शब्द निर्दिष्टस्य "पूर्णमासः सरस्वानिति
पूर्णमासप्रदेन पुनः परामर्शेन पौर्णमासी पूर्णमासशब्दयोरपि पर्यायत्वावगमाच समुदाया.
नुवादसम्भवात् । तथा च दर्शपूर्णमासपदस्य कालयोगिध्वेव प्रवृत्तेः तदनुरोधेनैव यजेरपि
वर्तन मिग्राह-एवं चेति । तानेव श्राग्नेयादीन् षड़यागानेव । नन्वेवं सति स्वरसतो
यजेः सविहितसकलयागपरस्य यागषटकमात्रयाचित्वेन सङ्कोचे स्वार्थत्यागरस्यादित्या-
शंक्याह-न होति । कांस्यभोजिन्यायेन संकोचेऽपि न स्वार्थत्याग इति भावः । राजतू.
यपदे एतद्वैलक्षरायं दर्शयति - राजसूय पदन्विति । अत इति अनिर्णीतार्थत्वेन
 
C
 
-