This page has not been fully proofread.

सारविवेचिनोव्याख्यांसंर्वालतः
 
निरूपणम् ]
 
६६
 
पेचनोयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमविकारत्वात्प्राकृतैरेव धर्मेनिं-
राकाङ्क्षत्वात् । किन्तु प्रकरणाद्राजसूयाङ्गम् ।
 
राजसूयशब्द-
न च 'दर्श-
ननु 'राजा राजसूयेन स्वाराज्यकामो यजेत' इत्यत्र
स्तावनामधेयत्वा दाख्यातपरतन्त्रो यत्राख्यातं तत्रैव प्रवर्तते ।
पूर्णमासाभ्यां स्वर्गकामो यजेते त्यत्र यथा दर्शपूर्णमासपदं नामधेयमपि
नाख्यातपरतन्त्रम्, तत्र हि यजेतेत्याख्यातमविशेषात्सर्वानेव प्रकृतानाग्ने.
यादीन् प्रयाजादींश्चाभिधातुं समर्थम्, दर्शपूर्णमासपदं त्वाग्नेयादीनेव वद्-
ति, न सर्वान्, अतश्च न तदाख्यातपरतन्त्रम् । तथा राजस्यपदमपि किं
न स्यादिति वाच्यम् । प्रसिद्धेन हि पदेनाप्रसिद्धं नि(१) यते । यथाहुः-
पदमज्ञातसंदिग्धं प्रसिद्धैरपृथकश्रुति ।
 
निर्णयते निरूढं तु न स्वार्थादपनीयते ॥ इति ।
 
भिषेचनीय, दशपेय, केशवपनीय, व्युष्टिद्विरात्र, क्षत्रवृति, संज्ञका : (२) षट् सोमयागाश्च
विहिताः । तत्र अभिषेचनीयाख्यसोमयागसन्निधौ "प्रर्दीव्यति, राजन्यं जिनाति,
शौनश्शेपमाख्यापयत" इत्यादिभिः अक्षदेवनराजन्यजयादयः श्रूयन्तेत इत्यर्थः ।
धर्माः नि । तेषां विदेवनादीनाम् । तदङ्गत्वम् अभिषेचनीयाङ्गत्वम् । ननु अभि-
षेचनीयस्य निर्धर्मकत्वेन कथंभावाकाङ्क्षासत्वात् विदेवनादीनामप्याकाङ्क्षावत्वात् तेषाम-
भिषेचनीयाङ्गत्वं प्रकरणादेव कुतो न स्यात् ? इत्यत आह - अभिषेचनीयस्येति ।
ज्योतिष्टोमविकारत्वादिति । अव्यक्तचोदितानां ज्योतिष्ठोमविकारस्वस्याष्टमे "अ.
व्यक्तासु तु सोमस्य" इत्यनेनोकत्वादिति भावः । व्यवस्वरूपं पूर्वमेव निरूपि-
तम् । प्राकृतैः अग्निष्टोमसंस्थाकज्योतिष्टोमाङ्गैः ।
 
6
 
ननु' 'श्रनुमत्यै पुरोडाशमष्टाकपालं निर्वपति" इत्यादिवाक्यविहितानामेवे
ष्टिपशुसोमानां "राजसूयेन स्वाराज्यकामो यजेत" इत्यनेन फल संबन्धबोधनात्
तेषामेव राजसूयपदवाच्यत्वमङ्गीकरणीयम् । ते च प्रत्येकं स्वैः स्वैः प्राकृतैरङ्गैर्निरा-
काङ्क्षा इति उभयाकाङ्क्षाभावात् कथं विदेवनादयः प्रकरणग्राह्याः ? इत्याशङ्कते - न -
निवति । तत्र वर्तत इति । प्रख्यातं यादृशार्थबोधकं तादृशार्थबोषकमित्यर्थः । ननु
नामधेयत्वेऽपि दर्शपूर्णमासपदवत् स्वतन्त्रतैवाऽस्तु इत्याशङ्कतेन चेति । दर्शपूर्ण-
मासपदस्य स्वतन्त्रतां विवृणोति - तत्र होति । ग्यादी इत्यादिपदेन पञ्चप्रधा-
नयागा गृह्यन्ते । प्रयाजादोन् इत्यादिपदेन अनूयाजाज्यभागादीनामङ्गयागानां ग्रहणम्।
ततभ यजतिचोदनाचोदितान् प्रकृतान् सर्वानेव वदतीत्यर्थः । श्राग्नेयादीनेवेति । येषां
कर्मणां स्वोत्पत्तिवाक्ये श्रमावास्यापौर्णमासीरूपकालश्रवणमस्ति तेषामेव दर्शपूर्णमासप-
दवाच्यश्वस्य पौर्णमास्यधिकरणे स्थापितत्वात् आग्नेयादीनां षण्णा मेव तथात्वादिति
भावः । इदञ्चाग्रे मूलेऽपि व्यक्तीभविष्यति । परिहरति - प्रसिद्धेनेति । पदमिति ।
अर्थविशेषवाचित्वेन अज्ञातं श्रत एव च सन्दिग्धं पदं अर्थविशेषवाचित्वेन प्रसिद्धः
पदैः श्रपृथकश्रुति सामानाधिकरणय निर्दिष्टं सत् अर्थविशेषबोधकत्वेन नियते । यत्त
 

 
a
 
१ नियम्यते, २ यत्वत्र शतपथभाष्ये सप्त सोमयागा इत्युक्तं तत् व्युष्टिद्विरात्रस्य द्वित्वमभिप्रेत्य तस्य द्वथ
ज्ञानुष्ठेयश्वात् । न तु वस्तुतो यागसप्तकाभिप्रायेण । तथास्खे बहीनां भतीना कल्पसूत्राणां च विरोधात्।