This page has not been fully proofread.

६८
 
मीमांसान्यायप्रकाशः
 
[ प्रकरण-
होमस्य धर्मः कस्मिन् होमे प्रवर्तत इति विशेष निर्णये प्रमाणाभावात् । अतो
धर्मप्राप्त्यभावात् दविहोमैरिष्टं भावयेत्कथमित्युत्पन्नाध्याकाङ्क्षा स्वरूपनिष्पा
दनेनैव शाम्यति । एवं येष्वङ्गेषु सन्दशाद्यभावस्तत्रोत्पन्नाण्याकाङ्क्षा तेनैव
निवर्तते, न तु सर्वथा तदभावः । तस्माद्युक्तमुक्तमभिक्रमणं प्रयाजाङ्गमिति ।
 
तच्चेदमवान्तरप्रकरणं महाप्रकरणाद्वलीयः, सन्दंशपतितानां धर्माण
कैमर्थ्याकाङ्क्षायां प्रधानापूर्वात्प्रयाजाद्यपूर्वस्य ऋटित्युपस्थितेरिति । प्रकृत-
मनुसरामः । तत्सिद्धमुभयविधस्य प्रकरणस्य विनियोजकत्वम् ।
 
3
 
तदिदं स्थानादिप्रमाणाद्वलवत् । यत्र हि स्थानादङ्गत्वं तत्रान्यतरस्य
प्रकारान्तरेण निराकाङ्क्षत्वम् । न च साकाङ्क्ष निराकाङ्क्षेण संबधुं योग्यं
विनाकाङ्क्षोत्थापनेन । अतश्चान्यतराकाङ्क्षया यावदुभयाकाङ्क्षारूपप्रकरणकल्प-
नद्वारा वाक्यादि कल्पयितुमारभ्यते, झटिति तावत्प्रकरणेन वाक्यादिकं
कल्पयित्वा विनियोगः क्रियत इति स्थानात्मकरणस्य बलोयस्त्वम् ।
अत एव विदेवनादयो धर्मा श्रभिषेचनीयसन्निधो पठिता अपि
चनीयस्याङ्गम् । तेषां तदङ्गत्वं भवत् स्थानाद्भवेत्, न तु प्रकरणात् । अभि-
नाभिषे.
 
13
 
"अप्रतिष्ठिता वै त्र्यंबका इत्याहुः । नेध्मावर्हिः सन्नह्यति" इति दविंहोमानां
अप्रतिष्ठितत्वे इध्माबर्हिरभावस्य हेतुत्वेन निर्देशात्, नारिष्ठहोमेषु चामप्रधानसाधार.
गानामिध्माबर्हिषां सत्त्वात् तेषां च चोदकतस्तत्रापि प्राप्तिसम्भवात् । न चायं चोदक-
प्राप्तस्यैव प्रतिषेधोऽस्त्त्रिति वाच्यम् । अस्य च "आदित्यं चरुं निर्वपेत् पुनरेत्य
गृहेषु" इत्यादित्यचरुविधायकवाक्यशेषत्वेन प्रतिषेधविधित्वासंभवात् । नापि विष्टलेपफ-
लीकरणहोमयोः; तयोः प्रतिपत्तिकर्मत्वेन धर्मप्रयोजकत्वाभावेन प्रकृतित्वासंभवात्
इत्येतत्सर्वे मनसि निधायाह – कस्य होमस्येत्यादि । दर्विहोमविषयविचारमुपसंहरति-
श्रत इति । तन्न्यायमनभावनायाम तिदिशति
- एवमिति । संदशादीत्यादिपदेन
वाचनिकाङ्गस्मार्ताचमनादीनि परिगृह्यन्ते । न किञ्चिन्मध्ये पठितम् । न वा वाचनिकं
किञ्चित् । नापि स्मार्ते किञ्चित् । एतादृशानि सन्ति बहून्यज्ञान प्रोक्षणादीनि । तत्र
लोकत एव तत्स्वरूपं ज्ञात्वाऽऽकाङ्क्षा निवर्तनीयेत्यर्थः ।
 
I
 
एवमवान्तरप्रकरणं निरूप्य तस्य महाप्रकरणापेक्षया प्राबल्यं प्रतिपादयितुमारभते-
तञ्चेति । प्रधानापूर्वादिति । प्रधानापूर्वापेक्षयेत्यर्थः । भत्युिपस्थितेरिति ।
तस्यैव सन्निहितत्वेन बुद्धौ विपरिवर्तमानत्वादिति भावः ।
 
9
 
स्थानाद्यपेक्षया प्रकरणस्य प्राबल्यं निरूपयितुमारभते
- तदिमिति । आदिपदेन
समाख्यापरिप्रहः । स्थानात् स्थानरूपप्रमाणात् । अङ्गत्वमिति । बोध्यत इति शेषः ।
प्रकारान्तरेणेति । क्लृप्तोपकारप्राकृतपदार्थान्वयेन प्रकृतौ कृतकार्यत्वेन वेत्यर्थः ।
 
विदेवनादय इति । अस्ति राजसूयः "राजा राजसूयेन स्वाराज्यकामो यजेत"
इत्यनेन स्वाराज्यरूपफलोद्देशेन विहितः । तत्र अनुमस्यादय इष्टयः, पञ्चवातीयादयो
दवहोमाः, "आदित्यां मलहां गर्भिणीमालभते" इत्यादयः पशुयागाः, पविभा,