This page has not been fully proofread.

निरूपणम् ]
 
सारविवेविनोव्याख्यासंवलितः
 
प्रयाजकथम्भावेत्यर्थः।
 

 
न चाङ्गभावनायाः कथंभावाकाङ्क्षाभावात् कथं प्रयाजभावनाकथंभावेना-
मि

भि
क्रमणं गृह्यते इति वाच्यम् । भावनासाम्येन सर्वत्र कथंभावाकाङ्क्षायाः

त्वात् । प्रयाजैरपूर्वं कृत्वा यागोकारं भावयेदित्युक्ते यो नाम न जानाति
प्रयाजे

प्रयाजै
रपुर्वं कर्तुं तस्यास्त्येव कथंभावाकाङ्क्षा कथप्रेमेभिरपूर्वं कर्तव्यमिति । सा

च सन्दंशपतितैर्वाचनिकैः स्मार्तश्चाचमनादिभिः शाम्यति । तदभावे च स्वरू
-
पनिष्पादनेन दर्विहोमन्यायेन निवर्तते । दर्विहोमेषु हि स्वरूपनिष्पादनाति-

रिक्तस्तथा व्यापारो न श्रूयते । नाप्यतिदेशेन तत्प्राप्तिः । यागीयानां धर्माणां

तावनातिदेशः, यागत्वेन होमत्वेन वैलक्षण्यात् । नावि होमीयानाम्, कस्य

वार्तिकं प्रमाणति - परेति । परप्रकरणस्थानां दर्श

पूर्णमासप्रकरणस्थानां प्रवाजादीनां श्रङ्गेश्रोताज्यसमानयनादिके श्रुत्यादिभिस्त्रि-

भिः श्रुतिलिङ्गवाक्यैः ज्ञाते पूर्व विहितत्वेनावगते पश्चादपि तैः श्रुत्यादिभिः कस्मिंश्चिद

विहिते सति तत्सन्दष्टं तत् तन्मण्यविहितं किंचिदङ्गं तादृशपूर्वोत्तराङ्ग सन्दंशेन प्रयाजायज्ञं

भवतीति श्र्लोकार्थः । यद्यपि पूर्वमिति नैवास्ति श्लोके तथापि पुनश्चेति

तल्लभ्यत इति न दोषः । प्रधानभावनानामेवेतिकर्तव्यताकाङ्क्षा,

साघनत्वेन कथमित्याकाचोदयात्, नाङ्गभावनानां, तासामफलत्वात् इति वदतां प्राभा-

कराणां मतमनुवदति - न चेति । अङ्गभावनानामपि कार्यतया विधिना बोधितत्वात्

कार्यस्य चालौकिकत्वात् अतिप्रकारत्न कर्तव्यता विशेष रूपेति कर्तव्यताकाङ्क्षा सम्भ-

वत्येव तासामपीति परिहरति - भावनासाम्येनेति । अङ्गभावनाया अपि भावनात्वा-

विशेषात् प्रधानभावनातुल्यत्वेनेत्यर्थः । सर्वत्र सर्वास्वपि भावनासु सन्देशपति-

तैरिति । अभिक्रमणादिभिरिति शेषः । सन्दंशाभावस्थले कथमाकाङ्क्षाशान्तिः ? प्रत

श्रा - वाचनिकैरिति । "इन्द्र ऊर्ध्वो अध्वर इत्याघारमाघारयति" इत्यादि

वचनविहितैर शैरित्यर्थः । तेषामध्यमावे कथम् ? हत्यत आह - स्मार्तेरा बमनादिभि

रिति । "आयान्तेन कर्म कर्तव्यम्" "दक्षिणाचारेण कर्तव्यं" इति सर्वकर्म-

साधारण्येन स्मृतिविहितैः श्राचमनदक्षिण पाण्याचरणा दिभिरित्यर्थः ।
 

 
-
 
-
 

 

 
-
 
-
 
LE
 

 
६७
 

 
>
 

 
चशब्दबलात्

तासामेव फल-

स्वरूपनिष्पादनेनेति । यथाश्रुतकर्मस्वरूपमात्रानुष्ठानेनेत्यर्थः । दर्विहोमन्याये-

नेति । यथा दर्बोहोमा पूर्वाः श्रुतेतिकर्तव्यताश्चेति तन्त्रोत्पन्नापि कथंभावाकाङ्क्षा

स्वरूपनिष्पादनेनेव शाम्यति तद्वदित्यर्थः । तदेवोपपादयति-दविहोमेध्विति । जुहो-

त्युत्पत्तिकाः एकमन्त्रकाः स्वाहाकारप्रदाना दवहोमाः । ननु सन्निधौ व्यापाराश्रवणेऽपि

अतिदेशेन तत्प्रातिरस्तु, - नापीति । ऋतिदेशो यागीयधर्माणां ? होमीयत्र-

मणां वा ? नाद्य इत्याह - यागीयानामिति । तत्र हेतुमाह - या गत्वेनेति । दर्श-

पूर्णमासज्योतिष्टोमादे रित्यर्थः । होमस्वेनेति । दर्विहोमानामिति शेषः । वैलक्षण्या-

दिति । प्रक्षेपाङ्गकोद्देशत्यागरूपक्रियाद्वयवृत्तिजातेः यागत्वात् उद्देश- त्याग-प्रक्षेपात्म-

'कक्रियात्र्यवृत्ति जातेः होमत्वाच तयोरत्यन्तं भेदादित्यर्थः । चोदना लिङ्गातिदेशस्य साह-

श्यमूलकत्वेन तदभावे तस्यैवासंभवादिति भावः । द्वितीयं निराकरोति-नापीति ।

अमिहोत्रस्य न दवहोमप्रकृतित्वं विशेषनियामकाभावात् नापि नारिष्ठहोमानाम्,