This page has been fully proofread once and needs a second look.

विधीयमानयोर्द्वयोरतराळेले विधीयन्त इत्युक्तं तन्त्ररत्नादावित्यास्तां तावत् ॥
 
( अवान्तरप्रकरणानिरूपणम् )
 
फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवान्तरप्रकरणम् ।
ज्याच्चाभिक्रमणादीनां प्रयाजादिषु विनियोजकम् । तच्च सम्न्दंशेन ज्ञायते । तद-
भावेऽविशेषात्सर्वेषां फलभावनाकथम्भावेन ग्रहणात् ।
 
संदंशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहित-
त्वम्, यथा - --अभिक्रमणम्, तद्धि 'समानयत उपभृतः' इत्यादिना प्रयाजानु-
वादेन किञ्चिदर्शङ्गं विधाय विधीयते, पश्चादपि प्रयाजानुवादेन 'यो वै प्रयाजानां
मिथुनं वेदे 'त्यादिना किञ्चिदङ्गं विधीयते । अतः प्रयाजाङ्गमध्ये पठितमभि-
क्रमणं तदङ्गं भवति, तत्कथम्भावाकाङ्क्षाया अशान्तेः । यथाहुः--

परप्रकरणस्थानामङ्गे श्रुत्यादिभिस्त्रिभिः ।
ज्ञाते पुनश्च तैरेव सन्दंशेन तदिष्यते ॥ इति ।
 
-[commentary]
 
समुचिता, अभिमतं चास्माकमपि तदेव, तथापि तन्त्ररत्नाद्युक्तिमात्रमवलज्म्ब्य प्रकृतो.-
दाहरणार्थमन्त्रोक्तमिति भावः ॥
 
( श्रवान्तरप्रकरण निरूपणम् )
 
एवं महाप्रकरणं निरूप्य इदानीमवान्तरप्रकरणं निरूपयति- -फलभावनाया इति ।
च्प्रवान्तरप्रकरणं च । तदद्भावे सन्दंशाभावे ।
 
श्रथ को नाम सन्दंशः ? - अत आह--सन्दंशो नामेति । एकाङ्गानुवादेनेति ।
एकं यत्प्रधाननिरूपितमङ्गं तदनुवादेनेत्यर्थः । इदमुपलक्षणं सन्दंशान्तरयोरपि । प्राकृ-
ताज्ञाङ्गानुवादेन विहिताभ्यां सन्दष्टं यदसंयुक्तमपि विकृतौ श्रुतं तदपि प्रकरणेन गृह्यते ।
विकृतेः पूर्वमसंयुक्तं किंचिद्विद्दिहितं ततः पूर्वे तु प्राकृताशाङ्गानुवादेन यद्विहितं ततोऽसंयुक्तं
यत् तत् तद्विकृतिग्रहणेन गृह्यते । तथा विकृतेरनन्तरमसंयुक्तं किचिद्विधाय प्राङ्ककृताङ्क्षा-
नुवादेन कस्मिंश्चिद्विहिते तत्पूर्वमसंयुक्तं प्रकरणेन गृह्यते । इति भेदत्रयस्य प्ग्रन्थान्तरेषु
दर्शनात् । लोहकण्ट विद्धलोह शलाकाद्वयरूपः पात्रादिग्रहण साधनभूतः कश्चन पदार्थों लोके
सन्दंशपदवाच्यः । हिन्दी भाषायां सडसी इति द्राविडभाषायां इडिक्की इति च प्रसि-
द्धः । अभिक्रमणं प्रतिप्रयाजं किञ्चिदन्तरं श्राहवनीयसमीदेशं प्रति पदनिक्षेपणम् ।
तादृशाङ्ग मध्यपाठमुपपादयति--तद्धीति । समानयत इति । जौहवेनाज्यॆयेन प्रथमतः
त्रीन् प्रयाजानिष्ठाट्वा बर्हिःप्रया जार्थमुपभृत्स्थमाज्यं जुह्वां समानयेदित्यर्थः । यद्यप्यस्मिन् वाक्ये
प्रयाजशब्दोंदो नास्ति, तथापि श्रौपभृताज्यस्य "यदुपभृति प्रयाजानूयाजेभ्यस्तत्"
इत्यनेन प्रयाजानूया जार्थत्वावगमात् श्रौपभृतार्धस्य प्रयाजद्वयार्थमेव जुह्वां समानेयत्वात्
प्रयाजाङ्गत्वसङ्कीर्तनाविरोधः । एवं प्रयाजोद्देशेन विहितं पूर्वमङ्गमभिधाय पाश्चात्यमप्यमंङ्गं
कथयति --यो वै इति । मिथुनं वे देत्यादिनेति । "प्रया जानिष्ठाट्वाविवींष्यभिषाघारयति"
इत्यन्तेनेति शेषः । तत्रैव प्रयाजोपयुक्ताज्योद्देशेन हविरभिघारण रूपसंस्कारविधानात् यो
वै प्रयाजानामित्यस्यार्थवादत्वेन तत्र कस्याप्य विधेयत्वात् । एवं चकाङ्क्षायाः चर-
माज्ञाङ्गान्वयं यावदनुवर्तनावश्यंभावेन अस्त्येव तदानीमाका क्षैङ्क्षेत्याह- तर-तत्कथंभावेति ।