This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ प्रकरण
 
विधीयमानयोर्मयोरतराळे विधीयन्त इत्युक्तं तन्त्ररत्नादावित्यास्तां तावत् ॥

 
( अवान्तरप्रकरणांणानिरूपणम् )
 

 
फलभावनाया अन्तराले यदङ्गभावनायाः प्रकरणं तदवान्तरप्रकरणम् ।

तज्याभिक्रमणादीनां प्रयाजादिषु विनियोजकम् । तच्च सम्दंशेन ज्ञायते । तद

भावेऽविशेषात्सर्वेषां फलभावनाकथम्भावेन ग्रहणात् ।
 

 
संदंशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहित-

खम्, यथा - अभिक्रमणम्, तद्धि 'समानयत उपभृतः' इत्यादिना प्रयाजानु-

वादेन किञ्चिदर्श विधाय विधीयते, पश्चादपि प्रयाजानुवादेन 'यो वै प्रयाजानां

मिथुनं वेदे त्यादिना किञ्चिदङ्गं विधीयते । अतः मयाजाङ्गमध्ये पठितमभि

क्रमणं तदङ्गं भवति, तत्कथम्भावाकाङ्क्षाया अशान्तेः । यथाहुः-

परप्रकरणस्थानाम श्रुत्यादिभिस्त्रिभिः ।

ज्ञाते पुनश्च तैरेव सन्दंशेन तदिष्यते ॥ इति ।
 

 
-
 

 
समुचिता, अभिमतं चास्माकमपि तदेव, तथापि तन्त्ररत्नायुक्तिमात्रमवलज्य प्रकृतो.

दाहरणार्थमन्त्रोक्तमिति भावः ॥
 

 
( श्रवान्तरप्रकरण निरूपणम् )
 

 
एवं महाप्रकरणं निरूप्य इदानीमवान्तरप्रकरणं निरूपयति- फलभावनाया इति ।

तच प्रवान्तरप्रकरणं च । तदद्भावे सन्दंशाभावे ।
 

 
श्रथ को नाम सन्दंशः ? - सन्दंशो नामेति । एकाङ्गानुवादेनेति ।

एकं यत्प्रधाननिरूपितमङ्गं तदनुवादेनेत्यर्थः । इदमुपलक्षणं सन्दंशान्तरयोरपि । प्राकृ

ताज्ञानुवादेन विहिताभ्यां सन्दष्टं यदसंयुक्तमपि विकृतौ श्रुतं तदपि प्रकरणेन गृह्यते ।

विकृतेः पूर्वमसंयुक्तं किंचिद्विद्दितं ततः पूर्वे तु प्राकृताशानुवादेन यद्विहितं ततोऽसंयुक्तं

यत् तत् तद्विकृतिग्रहणेन गृह्यते । तथा विकृतेरनन्तरमसंयुक्तं किचिद्विधाय प्राङ्कताङ्क्षा-

नुवादेन कस्मिंश्चिद्विहिते तत्पूर्वमसंयुक्तं प्रकरणेन गृह्यते । इति भेदत्रयस्य प्रन्थान्तरेषु

दर्शनात् । लोहकण्ट विद्धलोह शलाकाद्वयरूपः पात्रादिग्रहण साधनभूतः कश्चन पदार्थों लोके

सन्दंशपदवाच्यः । हिन्दी भाषायां सडसी इति द्राविडभाषायां इडिक्की इति च प्रसि-

द्धः । अभिक्रमणं प्रतिप्रयाजं किञ्चिदन्तरं श्राहवनीयसमीर देशं प्रति पदनिक्षेपणम् ।

तादृशाङ्ग मध्यपाठमुपपादयति-तद्धीति । समानयत इति । जौहवेनाज्यॆन प्रथमतः

त्रीन् प्रयाजानिष्ठा बर्हिःप्रया जार्थमुपभृत्स्थमाज्यं जुह्वां समानयेदित्यर्थः । यद्यप्यस्मिन् वाक्ये

प्रयाजशब्दों नास्ति, तथापि श्रौपभृताज्यस्य "यदुपभृति प्रयाजानूयाजेभ्यस्तत्"

इत्यनेन प्रयाजानूया जार्थत्वावगमात् श्रौपभृतार्धस्य प्रयाजद्वयार्थमेव जुह्वां समानेयत्वात्

प्रयाजाङ्गत्वसङ्कीर्तनाविरोधः । एवं प्रयाजोद्देशेन विहितं पूर्वमङ्गमभिधाय पाश्चात्यमप्यमं

कथयति यो वै इति । मिथुनं वे देत्यादिनेति। "प्रया जानिष्ठा हविष्यभिषारयति"

इत्यन्तेनेति शेषः । तत्रैव प्रयाजोपयुक्ताज्योद्देशेन हविरभिघारण रूपसंस्कारविधानात् यो

वै प्रयाजानामित्यस्यार्थवादत्वेन तत्र कस्याप्य विधेयत्वात् । एवं चकाङ्क्षायाः चर-

माज्ञान्वयं यावदनुवर्तनावश्यंभावेन अस्त्येव तदानीमाका क्षैत्याह- तरकथंभावेति ।