This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्या संवलितः
 
यतु विकृतावपि प्राकृतधर्मानुवादेन विधोधीयमानयोर्धर्मयोरन्तरालेऽपूर्व-
मध्

मप्
यङ्गं केवलं पठ्यते तदपि प्रकरणेन विनियुज्यते । यद्यपि विकृतेः कथं
-
भावाकाङ्क्षा प्राकृतैरेवाःवाङ्गैः शाम्यति, तथापि यत्र प्राकृताङ्गानुवादेन धर्मवि
-
धानं तत्र तद्विधानं याव ([^)] द्भवति तावत्कथंभावाकाङ्क्षा न निवर्तते । अतो

विकृतेराकाडावरङ्क्षावत्वादन्तराले विहितस्याप्यपूर्वाङ्गस्य भाव्याकाङ्क्षा सत्त्वाद्युक्तं

तस्य प्रकरणाद्विकृत्यर्थत्वम्, यथा श्रामनहोमेषु । ते हि प्राकृताङ्गानुवादेन
 

 
[commentary]
 
प्राकृताङ्गानुवादेन विधानाभावेऽपि प्राकृताङ्गानुवादेन विहितधर्ममध्ये पठितस्या-

प्यपूर्वाङ्गस्य प्रकरणग्राह्यता सम्भवतीत्याह-
इ० -
-यत्विति । ननु विकृतिभावनाकथंभावा.
-
काङ्क्षा प्राकृतैस्तदनुवादेन विहितैर्वा शाम्यतीति कथमुभयभिन्नस्यास्यापूर्वाङ्गस्य

प्रकरण विषयतेत्याशङ्कते-- यद्यपोपीति । उत्पन्ना ह्याकाङ्क्षा प्राकृतसर्वाङ्गसम्बन्धानन्त
-
रमेव शाग्म्यति, अतो मध्ये पठितस्यापि साकाङ्क्षायामेव विकृतिभावनाया मन्वयात्
मन्वयात्
सम्भवति प्रकरणग्राह्यतेति परिहरति - --तथापीति । यत्र प्राकृतेति । अनेन विकृति-

प्रधानप्राकृताङ्गधर्मयोर्मध्ये पठितस्याप्यपूर्वाङ्गस्य सन्दंशेन प्रकरणप्ग्राह्यता सूचिता । आ-

मनहोमेष्विति । 'वैश्वदेवीं साङ्ग्रहणीं निर्वपेत् ग्रामकामः' इति साङ्ग्रहणेष्टिं

विधाय तदनन्तरं "श्रामनमस्यामनस्य देवा इति तिस्र आहुतीर्जुहोति" इति

विहितेषु होमेष्वित्यर्थःप्राकृताङ्गानुवादेन विधीयमानयोरिति । इदन्तु चिन्त्यम् ।

मैत्रायणीयसंहितायां "यत् प्रयाजानां पुरस्तात् जुहुयात् बहिरात्मानं सजाता-

नां दध्यात्, यदनूयाजानां परस्तात् जुहुयात् स्वर्गं लोकमपक्रामेत्, मध्ये

जुहोति" इति वाक्येन प्राकृतप्रयाजानुयाजमध्य एवामनहोमानां विधानात् । अत एव

मिश्रैरपि न्यायरत्नमालायां 'विकृतिष्वपि यत्प्राकृताङ्गमध्ये पठितं, यथा-आमन-

होमः', इति प्राकृताङ्गमध्यपाठ एवोक्तः । शास्त्रदीपिकायामपि "आमनहोमानाञ्च

प्राकृताङ्गमध्यविहितत्वेने" त्युक्तम् । तन्त्ररत्नेऽपि च "प्राकृतास्तावदाकाङ्क्षयैव

गृह्यन्ते । तयोर्द्वयोः प्राकृतयोः परामृश्यमानयोर्मध्ये पतितमपूर्वमण्प्यङ्गमा-

काङ्क्षायामव्यावृत्तायां विधीयमानं काङ्क्षापरनामधेयप्रकरणेन गृह्यते; यथा-
-
"यत्मयाजानां पुरस्तात् जुहुयात् बहिरात्मानं सजातानां दद्ध्यात्, यदनूयाजानां

परस्तात्, स्वर्गं लोकमपक्रामेत्, मध्ये जुहोति, मध्यत एव सजातानामात्म-

न्धत्ते" इत्येवं परामृश्यमाना श्रामनहोमाः सम्बन्धिपद व्यवाये नाकाङ्क्षा ग्राह्य-

प्रयाजानूयाज मध्यवर्तित्वेन ग्रहीष्यन्ते इत्यनेन श्रामनहोमानां प्रयाजानूयाजमध्यव-

र्तित्वस्यैवोक्तत्वात् प्राकृताज्ञाङ्गानुवादेन विधीयमानधर्ममध्यपाठस्य कुत्राप्यनुपलम्भात् । ननु

तन्त्ररत्ने प्रकरणग्राह्यत्वोक्तावपि शास्त्रदीपिकायां सन्निधिप्ग्राह्यत्वमुक्त्वा "प्रकरणप्रात.
ग्राह्य-
त्वस्यापि सम्भवात्" इत्यपिना प्रकरणग्राह्यत्वेऽस्वरसः सूचितः । अत एव च न्याय-

सुधायां बलाबलाधिकरणे आमनोमानां सन्निधिविषयतैवोकेक्तेति कथं तेषां प्रकरणप्रा-
ग्रा-
ह्यत्वम् ? इत्यत आह - --इत्यास्तां तावदिति । यद्यप्यामनहोमानां सन्निधिग्राह्यतैव
 

 
[^
.] यावन्न निवर्तते ।
& मो० न्या०