This page has been fully proofread once and needs a second look.

मोमांसान्यायप्रकाशः
 
[ प्रकरण-
शास्त्रवि
 
नङ्गत्वाद्विकृतेस्तदाकाङ्क्षाभावात् । तथा हि--ज्योतिष्टोमे दक्षिणादानसमये विहि
तकृष्ण
-
तकृष्ण
विषाणत्यागस्य द्विरात्रादिषु चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् ।

उत्तरेऽहिह्नि दक्षिणादान पूर्वकालीनैः पदार्थैः कृष्णविषाणकण्डूयनस्य
शास्त्रवि-
हितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दक्षिणादानोत्तरकालं पाणिकराड्ण्डूयनं

दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदा-

र्
थैर्नापेक्ष्यते, तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति। एवं निर्गुणत्वस्या
-
विहितत्वेन विकृतेस्तदपेक्षा नास्तीति । तस्मादुभयाका वाङ्क्षाया असम्भवात्पृ-

दाज्यस्य न प्रकरण विनियोगः सम्भवतोतीत्यलमतिविस्तरेण
 

 
तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियोजकम् । विकृतौ तु यत्प्राकृतदृष्टार्था
-
ङ्गानुवादेन विधीयते तस्य विनियोजकं, न तु केवलं विधीयमानस्यापूर्वाङ्गस्येति
 

 
[commentary]
 
तद्वदित्यर्थः। तमेव दृष्टान्तं विशदयति - --तथा होहीति । अन्नात्रायमाशय:-
-
यः--
ज्योतिष्टों टोमे

सुत्यादिवसे माध्यन्दिने सवने ऋत्विग्भ्यो दक्षिणादानं विहितम्, अनन्तरञ्च ([^)] नीतासु

दक्षिणासु चात्वाले कृष्णविषाणां प्रास्यती' ति कण्डूयनार्थे दीक्षामध्ये यजमानेन स्वीकृ
-
तस्य कृष्णविषाणस्य त्यागो विहितः । स च द्विरात्रादिष्वहर्गणेष्वतिदिष्टः प्रथमेऽह्नि

सुत्यायां न क्रियते । तद्यदि प्रथमेऽह्नि त्यज्यते तत उत्तरेष्वहस्सु दक्षिणादानपूर्वकालिकानां

पदार्थानां विषाणकण्डूयनं विहितं बाध्येत । न हि त्यक्तस्य पुनरुपादानं भवति, न च

पुनरुपादित्समानस्य त्यागबुद्धिर्भवति । अतश्च ज्योतिष्टोमे दक्षिणादानोत्तरं दृष्टमपि

पाणिकण्डूयनं न द्विरात्रादावतिदिश्यते । नापि वैकृतैः पदार्थैस्तदपेक्ष्यते, प्रकृतौ दक्षि-
पा

णा
दानोत्तरं विषाणाभावेन पाणिकण्डूयनस्यार्थिकत्वात्, न ह्यार्थिकं चोदकः प्रतिदिश


तीति न्यायात्। किन्तु कृष्णविषाणसत्वात् तेनैव कण्डूयनमिति । अर्थसिद्धत्वा
दिति । विषाणस्य व्

दिति । विषाणस्य त्
यक्तत्वेन कण्डूतिसम्भवे पाणेरेव सन्निहितत्वेन तेनैव कण्डूयनं

प्राप्नुयादिति भावः । शास्त्रीयत्वादिति । शास्त्राविषयत्वादित्यर्थः ॥
 
-
 
-
 

 
दृष्टान्तोक्तन्यायं प्रकृतेऽतिदिशति - --एवमिति । तदपेक्षा निर्गुणत्वापेक्षा । पृषदा
-
ज्यस्य प्रकरणग्राह्यत्वा भावनिरूपणमुपसंहरति - --तस्मादिति । ननु प्रकृतावनूयाजानां

केवलाज्यविशिष्टानां कार्यजनकत्वश्रवणेऽपि विकृतौ तेषां पृषदाज्यविशिष्टानामेव कार्य
-
जनकत्वश्रवणात् विशेषण सम्पत्यर्थं वैकृताकावृङ्क्षायाः पृषत्तान्वयं यावदनुवर्तनात् कथं

न प्रकरणविषयतेत्यत आह -- --इत्यलमिति ।
Mfisse
2500

 
एवं हि प्राकृतानां वैकृतोपहोमादिक्रमसापेक्षत्वेनैव प्राकृतोपकारसाघनत्वात् उपहो-

मादीनामपि प्रकरणग्राह्यत्वं प्रसज्येतेति भावः । प्राकृतदृष्टार्थाकृति। श्र । अदृष्टार्थाज्ञानुवा
-
देन विहितस्याङ्गस्य उद्देश्यस्वरूपे आनर्थक्याभावात् तेनैवाकाङ्क्षाशान्तौ विकृत्य-

पूर्वपर्यन्तानुधावने प्रयोजनाभावात् उभयाकांक्षाभावेन प्रकरणग्राह्यता सम्भवतीति

भावः । केवलं प्राकृतदृष्टार्थाङ्गाननुवादेन ॥
www
 

 
[^
.] गवादिरूपदक्षिणाद्रव्येषु अध्वर्थ्यादिभिर्ऋत्विग्भिः स्वस्वस्थानं प्रापितेषु सत्सु कृष्णमृगस्य
 
विषाणं चात्वालारव्ख्ये गर्तविशेषे निरस्येदिति वाक्यार्थः ।