This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
६१
 
एवं 'पृषदाज्येनानूयाजान् यजतीति प्राकृतानुयाजानुवादेन विधी-
यमानं पृषदाज्यमपि प्रकरणाद्विकृत्यङ्गमिति केचिदाचार्याः । (१) अस्मतात-
चरणास्त्वेवमाहुः - पृषदाज्यं हि अनुयाजानुवादेन विधीयते । तत्स्वरूपे
चानर्थक्यप्राप्तो तैर्न विकृत्यपूर्वं लक्षयितुं युक्तं, विप्रकर्षात् ; किन्तु दीक्षणी-
यावा नियमन्यायेन स्वापूर्वमेव लक्षयितुं (२) युक्तं, सन्निकर्षात् । अत एवो-
त्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमुक्तं नवमे । मतश्च विधीयमानस्य पृष
दाज्यस्य वाक्यप्रतिपनेनानुयाजापूर्वेणैव नैराकाहान्न प्रकरणाद्विकृत्यपूर्वा
 
र्थत्वमिति ।
 

 
ग्राह्यत्वं वदतां न्यायसुधाकृतां मतमनुवदति – एवमिति । उक्तं हि तैस्सन्तर्दनाधिक-
रणे - "पृषदाज्येनानूयाजान् यजतो" ति प्राकृतानुयाजानुवादेन पृषदाज्यविधा-
नात् प्राकृताङ्गग्रहण वेलायामेव पृषदाज्यग्रहणप्रतीतेः तदानीं च नैराकाङ्दयाभावात्
प्रकरणेन पृषदाज्यं यथा गृहीतम्" इति । एवमिति । यथा प्राकृताज्ञानुवादेन विहित-
स्यौदुम्बरत्वस्य प्रकरणग्राह्यत्वं तथेत्यर्थः । अस्मत्तातचरणास्त्विति । अनन्तदेवसं
शका इति शेषः । तत्स्वरूपेजवरूपे नर्थक्यप्राप्ताविति । विनापि पृष
दाज्यं येन
ाजानुष्ठानसम्भवादिति भावः। तैः अनूयाजैः ।
 
विकृत्यपूर्व स्वसम्बन्धिपशुयागादिजन्यप्रधानापूर्वम् । विप्रकर्षादिति । अनूयाजज-
न्यापूर्वापेक्षया विप्रकर्षादित्यर्थः । दोक्षणोयावानियमन्यायेनेति । "आग्नावैष्ण-
वमेकादशकपालं निर्वपेद्दीक्षिष्यमाण " इति दीक्षार्थत्वेन विहितेष्टिक्षणीया ।
'यावत्या वाचा कामयते तावत्या दोक्षणीयायामनुब्रयात्' इति वाक्येन ज्योति-
ष्टोमाङ्गभूतदीक्षणीयोद्देशेन कामस्वरो विधीयते, तस्य च दीक्षणीयास्वरूपे श्रानर्थक्यप्र•
सक्तौ दीक्षणीयापदेन दी क्षणीयाजन्यमपूर्वमेव लक्षयित्वा तदुद्देशेनैव कामस्वरविधानं,
तस्यैव सन्निकर्षात् ; न तु ज्योतिष्टोमीयपरमापूर्वोद्देशेन, तस्य विप्रकर्षात्, दीक्षणी-
यापूर्वार्थत्वेऽप्यानर्थंक्यपरिहारादित्युक्तं नवमे, तन्न्यायेनेत्यर्थः । स्वापूर्वमेव अनूया-
जजन्यापूर्वमेव । अत एव स्वरूपे श्रानर्थक्यप्रसक्तो तस्य सन्निहित स्वजन्यापूर्वलक्ष-
कत्वादेव । उत्पवनादोनामिति । 'उद्गग्राभ्यां पवित्राभ्यां प्रोक्षणोरुत्पुनाति'
इति वाक्यविहितस्योत्पवनस्य "शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्षति" इति
विहितपात्रप्रोक्षणस्वरूपे नर्थक्यप्रसक्तो तेषां सन्निहित प्रोक्षणजन्यापूर्वप्रयुक्तत्व मेव, न
तु विप्रकृष्टदर्शपूर्णमासापूर्वप्रयुक्तत्व मित्युक्तमित्यर्थः । नवम इति । नवमाध्यायस्य
प्रथमे पादे द्वितीयाधिकरणे द्वितीयवर्णक इत्यर्थः । एवं च नूयाजा विधीयमानस्य
पृषदाज्यस्य अनूयाजस्वरूपे क्सको अनाजपदेन अनूयाजापूर्व लक्षयित्वा
तदर्थत्वमेवाङ्गीक्रियते । तेनैव च तस्य नैराकाङ्क्षपात्, न तु विकृतिप्रधानभावनया
प्रहणमिति न प्रकरणग्राह्यत्वं तस्येत्युपसंहरति — अतश्चेति । एवञ्च प्रबलेन वाक्येन
स्व विषयापहारात् दुर्बलस्य प्रकरणस्य तत्र प्रवृत्तिरेव नास्तीति न प्रकरण विनियोज्यत्वं
पृषदाज्यानामिति भावः ॥
 
१ अन्ये वे
 
२ क्तमविप्रक.
 
O