This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[[ प्रकरण-
!
 
प्राप्त्यभावात् कथं तद्वाबाधः प्राप्तबाधः ? तद्विषयत्वे वा तेनैव नैराकाङ्क्षया-
ष्या-
न्नौदुम्बरत्वे प्रकरणं विनियोजकं स्यादिति वाच्यम् । नहि प्राप्तबा
-
स्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न

स्यात् । किं तर्हि तानेव पदार्थान्वस्तुतः प्रापयति ये विकृतौ न बाध्यन्ते । ते

पदार्थाः प्रकृतिवच्छन्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः यथा प्रकृ
तौ कृतं तथा विकृतौ कर्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्तव्याः - इति । अ
तश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नैरौदुम्वरत्वादिभिर्वाध्यन्ते इति
भवति तद्बाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्क्षा निवर्तयितुं
शक्यते । तस्माद्यक्तमुक्तमुभयाकाङ्क्षारूपप्रकरण सम्भवाद्विकृतौ
 
-
 
नु.
 
प्रकृतिवच्छब्देन
 
प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः--यथा प्रकृ-
तौ कृतं तथा विकृतौ कर्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्तव्याः--इति । अ-
तश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नैरौदुम्बरत्वादिभिर्बाध्यन्ते इति
भवति तद्बाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्क्षा निवर्तयितुं
शक्यते । तस्मा<error>द्य</error><fix>द्यु</fix>क्तमुक्तमुभयाकाङ्क्षारूपप्रकरणसम्भवाद्विकृतौ प्राकृताङ्गानु-
वादेन विधीयमानानामौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति ।

 
[commentary]
 
खादिरत्वेनैव । शास्त्रप्राप्तत्वेनेति । विकृत्याकांक्षान्यथानुपपत्या कल्पितेन प्रकृतिवद्वि-

कृतिः कर्तव्येत्यनेन शास्त्रेण प्राप्तेरित्यर्थः । बाधो न स्यादिति । प्रमाणपरिगृहीततया

अत्यन्त बाबोबाधो न स्यादित्यर्थः । तथाच विकल्पः प्रसज्येतेति भावः । न बाध्यन्त इति ।

तथा च विकृतौ बाघिअबाधितपदार्थविषयकत्वमेवातिदेशस्येति भावः । कथं तर्हि प्राप्तबा-

त्वम् ? अत आह--ते चेति । विकृतौ बाध्यमाना पीत्यर्थ:
थः । प्रकृतिवच्छब्देन
प्रकृतिवद्विकृतिः कर्तव्येतिवाक्यघटकप्रकृतिवदिति शब्देन । भ्रान्तेः प्रकारमाह-
-
यथेति । एवं च भ्रान्तिप्राप्तस्यैव बाघःधः प्राप्तबाध इत्युच्यते न वस्तुतः प्राप्तस्येत्यत

--अतश्चेति । एवं च वस्तुतोऽप्राप्तानेव पदार्थान् स्वभ्रान्त्या प्राप्तान्मन्यते पुरुषः ।

तादृश्या भ्रान्तेरेव निवारक मौदुम्बरत्वादिशास्त्रमिति तदादायैव प्राप्तवावबाधत्वव्यवहार

इति फलितम् । एतेन प्राप्तबास्थले पदार्थानां भ्रान्त्यापि प्राप्तिर्नास्तीति सूचितम् ।

ननु खादिरत्वादीनां प्राप्तबासिद्धयर्थे भ्रान्त्यापि प्राप्तिरवश्यमङ्गीकरणीया । एवं च

तैरेवाकाक्षाशान्तेः कथमौदुम्रत्वादीनां प्रकरणग्राह्यत्वमित्याशङ्कथक्य न भ्रान्तिप्राप्तानां

वैधाकांक्षानिवर्तकत्वं सम्भवतीत्याह--न चेति । श्रौदुम्बरत्वादीनां प्राकृताज्ञाङ्गानुवादेन

विधीयमानानां प्रकरणग्राह्यत्वमुपसंहरति - --तस्मादिति ।
 

 
केचित्तु--नेत्थम्भावेन गृह्येत क्रियारूपविवर्जनात् ।
 
६०
 
-
 

इतिकर्तव्यतांशस्थां येनोद्दिश्योपसत्क्रियाम् ॥
 
PYUT
 

 
इति बलाबलाधिकरणस्थवार्तिके क्रियामुद्दिश्येत्युतत्वात् विकृतौ द्रव्योद्देशेन जात्या-

दिविधिस्थले "श्रौदुम्बरो यूपो भवति" इत्यादौ न प्रकरणग्राह्यत्वम् । न च यूपल-

क्षितनियोजनसम्बन्ध एव वाक्यीय इति वाच्यम् । नर्थक्यपरिहारस्य सन्निधिनैव

सिद्धेः । यूपपरिच्छेदिकायाश्चौदुम्बत्वजा तेरर्थापत्तिकल्पितनियोजन एवान्वयात् । यत्र

तु प्रमाणान्तरात् क्रियान्वयस्यालाभः तत्रैव परं लक्षितक्रियान्वयं यावत् विधिरायास्येत

यथा--यस्य पर्णमयी जुहुर्भवतीत्यादौ । एवं च क्रियोद्देशेनैव विहितस्य प्रकरण-

ग्राह्यत्व सम्भवात् यत्प्राकृता ज्ञाङ्गानुवादेन विधीयत इत्यादी दौ अङ्गपदं क्रियापरमेवेत्याहुः

एतेषां मते दृष्टादृष्टसंस्कारविशिष्टं काष्ठमेव यूपशब्दार्थ इति बोध्यम् ॥
 

 
एवं पशुचातुर्मास्यादौ प्रकृतिप्रासाप्तानूयाजोद्देशेन विहितस्य पृषदाज्यस्यापि प्रकरण-