This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[[ प्रकरण-
!
 
प्राप्त्यभावात् कथं तद्वाधः प्राप्तबाधः १ तद्विषयत्वे वा तेनैव नैराकाङ्क्षया-
न्नौदुम्बरत्वे प्रकरणं विनियोजक स्यादिति वाच्यम् । नहि प्राप्तबा
घस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न
स्यात् । किं तर्हि तानेव पदार्थान्वस्तुतः प्रापयति ये विकृतौ न बाध्यन्ते । ते
चपदार्थाः प्रकृतिवच्छन्देन प्राप्यन्ते इति भवति पुरुषस्य भ्रान्तिः यथा प्रकृ
तौ कृतं तथा विकृतौ कर्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्तव्याः - इति । अ
तश्च भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नैरौदुम्वरत्वादिभिर्वाध्यन्ते इति
भवति तद्बाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्क्षा निवर्तयितुं
शक्यते । तस्माद्यक्तमुक्तमुभयाकाङ्क्षारूपप्रकरण सम्भवाद्विकृतौ
 
-
 
नु.
 
प्रकृतिवच्छब्देन
 
वादेन विधीयमानानामौदुम्बरत्वादीनां प्रकरणं विनियोजकमिति ।
खादिरत्वेनैव । शास्त्रप्राप्तत्वेनेति । विकृत्याकांक्षान्यथानुपपत्या कल्पितेन प्रकृतिवद्वि-
कृतिः कर्तव्येत्यनेन शास्त्रेण प्राप्तेरित्यर्थः । बाधो न स्यादिति । प्रमाणपरिगृहीततया
अत्यन्त बाबो न स्यादित्यर्थः । तथाच विकल्पः प्रसज्येतेति भावः । न बाध्यन्त इति ।
तथा च विकृतौ बाघितपदार्थविषयकत्वमेवातिदेशस्येति भावः । कथं तर्हि प्राप्तबा-
घत्वम् ? अत आह-ते चेति । विकृतौ बाध्यमाना पीत्यर्थ:
प्रकृतिवद्विकृतिः कर्तव्येतिवाक्यघटकप्रकृतिवदिति शब्देन । भ्रान्तेः प्रकारमाह-
यथेति । एवं च भ्रान्तिप्राप्तस्यैव बाघः प्राप्तबाध इत्युच्यते न वस्तुतः प्राप्तस्येत्यत
ह-अतश्चेति । एवं च वस्तुतोऽप्राप्तानेव पदार्थान् स्वभ्रान्त्या प्राप्तान्मन्यते पुरुषः ।
तादृश्या भ्रान्तेरेव निवारक मौदुम्बरत्वादिशास्त्रमिति तदादायैव प्राप्तवावत्वव्यवहार
इति फलितम् । एतेन प्राप्तबाघस्थले पदार्थानां भ्रान्त्यापि प्राप्तिर्नास्तीति सूचितम् ।
ननु खादिरत्वादीनां प्राप्तबाघसिद्धयर्थे भ्रान्त्यापि प्राप्तिरवश्यमङ्गीकरणीया । एवं च
तैरेवाकाक्षाशान्तेः कथमौदुम्वरत्वादीनां प्रकरणग्राह्यत्वमित्याशङ्कथ न भ्रान्तिप्राप्तानां
वैधाकांक्षानिवर्तकत्वं सम्भवतीत्याहन चेति । श्रौदुम्बरत्वादीनां प्राकृताज्ञानुवादेन
विधीयमानानां प्रकरणग्राह्यत्वमुपसंहरति - तस्मादिति ।
 
केचित्तु-नेत्थम्भावेन गृह्येत क्रियारूपविवर्जनात् ।
 
६०
 
-
 
इतिकर्तव्यतांशस्थां येनोद्दिश्योपसत्क्रियाम् ॥
 
PYUT
 
इति बलाबलाधिकरणस्थवार्तिके क्रियामुद्दिश्येत्युतत्वात् विकृतौ द्रव्योद्देशेन जात्या-
दिविधिस्थले "श्रौदुम्बरो यूपो भवति" इत्यादौ न प्रकरणग्राह्यत्वम् । न च यूपल-
क्षितनियोजनसम्बन्ध एव वाक्यीय इति वाच्यम् । नर्थक्यपरिहारस्य सन्निधिनैव
सिद्धेः । यूपपरिच्छेदिकायाश्चौदुम्बत्वजा तेरर्थापत्तिकल्पितनियोजन एवान्वयात् । यत्र
तु प्रमाणान्तरात् क्रियान्वयस्यालाभः तत्रैव परं लक्षितक्रियान्वयं यावत् विधिरायास्येत
यथा—यस्य पर्णमयी जुहुर्भवतीत्यादौ । एवं च क्रियोद्देशेनैव विहितस्य प्रकरण-
ग्राह्यत्व सम्भवात् यत्प्राकृता ज्ञानुवादेन विधीयत इत्यादी पदं क्रियापरमेवेत्याहुः
एतेषां मते दृष्टादृष्टसंस्कारविशिष्टं काष्ठमेव यूपशब्दार्थ इति बोध्यम् ॥
 
एवं पशुचातुर्मास्यादौ प्रकृतिप्रासानूयाजोद्देशेन विहितस्य पृषदाज्यस्यापि प्रकरण-