This page has not been fully proofread.

निरूपणम् ]
 
सारविवेचनी व्याख्यासंवलितः
 
५६
 
प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य (१) प्रत्यास्नानादर्थलोपात् प्रति-
षेधाद्वा यो बाधः स प्राप्तबाधः । यथा - प्राकृतानां कुशानां प्रतिकूलशराम्ना
नात्, यथा वाडवघातस्य कृष्णलेषु वैतुष्यरूपप्रयोजनलोपात्, यथा वा पि.
त्र्येष्टौ होतृवरणस्य (१) 'न होतारं वृणीत' इति प्रतिषेधात् । औदुम्बरत्वेन
च खादिरत्ववाधः प्राप्तवाध एव वक्तव्यः, शरकुशन्यायेन । चोदकस्य च
खादिरत्वाविषयत्वे प्राप्त्यभावात्तदनुपपत्तिः स्यादिति ।
 
उच्यते-तार्तीय प्रमाणवि नियुक्तेनेतरस्य बाघनं तावदप्राप्तबाधनम् । प्रक-
रणं च तार्तीयम् । तेन तद्विनियुक्तौ दुम्बरत्वेनेतरस्य बाधनमप्राप्तबाध एव ।
नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः ।
 
a
 
वस्तुतस्तु प्राप्तबाध एवायम् । न च खादिरत्वस्य चोदका विषयत्वेन
एवमप्राप्तवाधं निरूप्य प्राप्तबाघस्वरूपं निरूपयितुमारभते-प्राकृतस्येति ।
प्रत्यास्नानात् विरुद्धपदार्थाम्नानात् । अर्थलोपात् अर्थस्य प्राकृतस्य प्रयोजनस्य
लोपात् । प्रतिषेधात् न कुर्यादिति शब्दतो वारणात् । प्राकृतानां कुशानामिति प्रकृतौ
दर्शपूर्णमासयोः 'कोशं बर्हि' रित्यनेन विहितानामित्यर्थः । प्रतिकूलेति। "रौद्रीं
रोहिणीमाल भेताभिचरन्" इति वाक्यविहिताभिचारेष्टी "शरमयं बर्हिः" इत्यनेन
बहिःकार्ये शराणां विधानादित्यर्थः । कृष्णलेविति । "प्राजापत्यं घृते चरुं निर्व-
पेत् शतकृष्णलमायुष्कामः" इति विहितायुष्कामेष्टयङ्गभूतेष्वित्यर्थः । प्रयोजनलो-
पादिति । कृष्णलानां स्वर्णखण्डरूपतया तत्र वैतुष्यस्यासम्भवादिति भावः । पित्र्ये-
टाविति । महापितृयज्ञ इत्यर्थः । होतृवरणस्येति । स्याश्च दर्शपूर्णमास विकृति-
स्वेन ततो ऽतिदेशतः प्राप्तस्य होतृवरणस्येत्यर्थः । शरकुशन्यायेनेति । प्राकृतानां
कुशानां वैकृतैश्शरैर्बाधो यथा प्राप्तबाघः, एवं प्राकृतस्य खादिरत्वस्य बाधः प्राप्तबाघ
एव वक्तव्यः । एवं च यदि न चोदकः खादिरत्वं विषयीकरोति तदा खादिरत्वस्याप्राप्त-
त्वादेव कथं तत्र प्राप्तबाधव्यवहारः सङ्गच्छेतेत्याह-चोदकस्येति । अनुपपत्तिस्या
दिति । एवञ्च "श्रौदुम्बरो यूपो भवति" इत्यस्य प्राप्तबाधत्वसिद्धये चोदकस्य खादित्व-
विषयकत्वमवश्यं वक्तव्यं भवतीति भावः । तद्विनियुक्तेति । प्रकरणविनियुक्तॆत्यर्थः ।
इतरस्य खादिरत्वस्य स्थानप्रमाणविनियुक्तस्य । ननु वैकृतेन प्राकृतबाघस्य प्रा
त्वाङ्गीकरणात् कथं सोऽप्राप्तबाघो भवेत् ? श्रत माह-नहीति ।
 
प्राप्तबाघ-
नन्वेवं सति यत्र प्रत्याम्नानात् प्रतिषेधाद्वा बाघः तत्रावश्यं प्रकरण विनियोज्यत्व
सम्भवेन प्राप्तबाघत्वापत्तौ तस्य तृतीये निरूपणीयत्वेन दशमे निरूपणानुपात्तिः ।
नचास्य प्राधान्येन अध्यायार्थत्वाभावेऽपि ग्राहनीयादिबाघस्येव प्रसङ्गान्निरूपणमिति वा
च्यम् । तथात्वे प्राप्तबाघस्य त्रैविध्यकथनानुपपत्तेः, इत्यत । श्राह-वस्तुतस्त्विति । ननु
खादिरत्वस्य चोदकविषयत्वमङ्गीक्रियते ? न वा ? अन्त्ये तस्य प्राप्त्यभावेन कथं तस्य
बाघः प्राप्तबाधो भवेत् १ अङ्गीकरणे वा तेनैव यूपस्य नैराकांदयात् कथमौदुम्बरश्वस्य
प्रकरण ग्राह्यत्वम् ? इत्याशङ्कयाह - नचेति । तद्विषयत्वे चोदकविषयत्वे । तेनैव
२० प्रतिकूलाम्नानात् इति ख. पु.
 
-