This page has been fully proofread once and needs a second look.

योजनयूपपृष्ठभावेन यावत्खादिरत्वमायाति। तावद्विधीयते इति युक्तं तेषां
प्रकरणाद्ग्रहणम्, उभयाकाङ्क्षासत्त्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं
विहितं स्यात्, ततो विकृतेराकाङ्क्षाभावादौदुम्बरत्वं न प्रकरणग्राह्यं स्यात् ।
न चैतदस्ति । चोदकस्य खादिरत्वाविषयत्वात् ।
 
ननु--यदि यावत्खादिरत्वमायाति तावदेवौदुम्बरत्वं विधीयते, तदा तेन
खादिरत्वबाधोऽप्राप्तबाधः स्यात्, तार्तीयबाधवत् । तथाहि--बाधो द्विविधः-
अप्राप्तबाधः प्राप्तबाधश्चेति । तत्र तार्तीयो बाधोऽप्राप्तबाधः । तत्र हि यावत्
दुर्बलेन [^१] प्रमाणेन विनियोगः कर्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनि-
योगः क्रियते इति तद्बोधितेनेतरबाधोऽप्राप्तबाधः, दुर्बलप्रमाणस्याप्रवृत्तत्वात् ।
 
[commentary]
 
स्वस्याः फलजनकत्वनिर्वाहार्थं प्राकृतानुपकारान् तत्पृष्ठभावेन च क्लृप्तोपकारान् प्राकृतान्
पदार्थानाकाङ्क्षति, आकांक्षा च पदार्थान्वयं यावदनुवर्तत इत्युक्तम् । एवं च प्रथमतः
पशुनियोजनं, तत्पृष्ठभावेन च यूपोऽतिदिश्यते; तत्पृष्ठभावेन च प्राकृतं खादिरत्वं याव-
दायाति, ततः पूर्वमेवौदुम्बरत्वस्य विधानात् भवति तस्य प्रकरणग्राह्यता । उपहोमादीनां
तु निवृत्ताकांक्षायामेव विकृतिभावनायां विधानात् न तत्रोभयाकांक्षाऽस्तीति न तेषां
प्रकरणप्राह्यत्वमिति । ननु प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशशास्त्रेण पशुनियोजनादीना-
मिव खादिरत्वस्यापि विकृतौ प्रापितत्वेन तेनैवाकांक्षायाः शान्तत्वात् कथमौदुम्बरत्वस्य
प्रकरणग्राह्यत्वम् ? इत्याशङ्कां निराकरोति--यदि हीति । खादिरत्वाविषयत्वादिति ।
एवं च खादिरत्वस्यातिदेशवाक्येनासंस्पर्शात् विकृतौ विध्यभावेन आकांक्षाया अनिवृत्तेः
युक्तमौदुम्बरत्वस्य प्रकरणग्राह्यत्वमिति भावः ॥
 
खादिरत्वस्य चोदकाविषयत्वे तद्वाधस्याप्राप्तबाधत्वं शङ्कते--नन्विति । तार्तीयबा-
धवदिति । तृतीयाध्यायगोचरो बाधो यथा प्राप्तबाघः तद्वदित्यर्थः । तत्र तयोर्मध्ये ।
कथं तार्तीयबाधस्याप्राप्तबाधत्वम् ! अत आह--तत्र हीति । विनियोग इति । पूर्व-
पूर्वप्रमाणकल्पनद्वारेति शेषः । तद्बोधितेन प्रबलप्रमाणबोधितेन पदार्थेन । इतरबाधः
दुर्बलप्रमाणबोधितस्य पदार्थस्य बाधः । अप्राप्तबाध इति। दुर्बलप्रमाणबोधितस्य
विनियोगदशामप्राप्तस्यैव बाधात् अप्राप्तबाध इति व्यवहार इति भावः । कथमप्राप्तता?
अत आह--दुर्बलेति ।
 
"निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च ।
एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥
एकस्सोपानपङ्क्तिस्थो भूमिस्थश्चापरस्तयोः ।
उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥
विरोधिनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः ।
प्रथमेन गृहीतेऽस्मिन् पश्चिमोऽवतरेन्मुधा ॥"
 
इत्यनेन प्रकारेण स्वरूपतः सत एवोत्तरोत्तरस्य स्वस्वविषयविनियोगे आकांक्षारूप-
कल्पनामूलोच्छेदात् श्रुतिकल्पनाप्रतिबन्धेन अलब्धप्रमाणभावस्यैव बाधनादिति भावः ॥
 
[^१] प्रमाणेन इति नास्ति क. पु.