This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ प्रकरण -
 
योजनयूपपृष्ठभावेन यावत्खादिरत्वमायाति। तावद्विधीयते इति युक्तं तेषां

प्रकरणाब्द्ग्रहणम्, उभयाकाङ्क्षासच्त्त्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं

विहितं स्यात्, ततो विकृतेराकाङ्क्षाभावादौदुम्बरत्वं न प्रकरणग्राह्यं स्यात् ।

न चैतदस्ति । चोदकस्य खादिरत्वाविषयत्वात् ।
 

 
ननु- -यदि यावत्खादिरत्वमायाति तावदेवौदुस्म्बरत्वं विधीयते, तदा तेन

खादिरत्वबाघोधोऽप्राप्तबाधः स्यात्, तार्तीयबाधवत् । तथाहि--बाधो द्विविधः-

अप्राप्तबाधः प्राप्तबाधश्चेति । तत्र तार्तीयो बाघोधोऽप्राप्तबाधः । तत्र हि यावत्

दुर्बलेन ([^)] प्रमाणेन विनियोगः कर्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनि-

योगः क्रियते इति तद्बोधितेनेतरबाघोधोऽप्राप्तबाधः, दुर्बलप्रमाणस्याप्रवृत्तत्वात् ।
 
५८
 

 
[commentary]
 
स्वस्याः फलजनकत्वनिर्वाहार्थं प्राकृतानुपकारान् तत्पृष्ठभावेन च क्लृप्तोपकारान् प्राकृतान्

पदार्थानाकाङ्क्षति, श्राकांक्षा च पदार्थान्वयं यावदनुवर्तत इत्युक्तम् । एवं च प्रथमतः

पशुनियोजनं, तत्पृष्ठभावेन च यूपोऽतिदिश्यते; तत्पृष्ठभावेन च प्राकृतं खादिरत्वं याव.
-
दायाति, ततः पूर्वमेवौदुम्बरत्वस्य विधानात् भवति तस्य प्रकरणग्राह्यता । उपहोमादीनां

तु निवृत्ताकांक्षायामेव विकृतिभावनायां विधानात् न तत्रोभयाकांक्षाऽस्तीति न तेषां

प्रकरणप्राह्यत्वमिति । ननु प्रकृतिवद्विकृतिः कर्तव्येत्यतिदेशशास्त्रेण पशुनियोजनादीना-

मिव खादिरत्वस्यापि विकृतौ प्रापितत्वेन तेनैवाकांक्षायाः शान्तत्वात् कथमौदुम्बरत्वस्य

प्रकरणग्राह्यत्वम् ? इत्याशङ्कां निराकरोति--यदि हीति । खादिरत्वाविषयत्वादिति ।

एवं च खादिरत्वस्यातिदेशवाक्येनासंस्पर्शात् विकृतौ विध्यभावेन आकांक्षा या अनिवृत्तेः

युक्तमौ दुम्बरत्वस्य प्रकरणग्राह्यत्वमिति भावः ॥
 

 
खादिरत्वस्य चोदकाविषयत्वे तद्वाघस्या धस्याप्राप्तबाधत्वं शङ्कते--नन्विति । तार्तीयबा-

धवदिति । तृतीयाध्यायगोचरो बावोधो यथा प्राप्तबाघः तद्वदित्यर्थः । तत्र तयोर्मध्ये ।

कथं तार्तीयबाघस्याप्राप्तबास्याप्राप्तबाधत्वम् ! श्रत ग्राअत आ--तत्र हीति । विनियोग इति । पूर्व-

पूर्वप्रमाणकल्पनद्वारेति शेषः । तद्बोधितेन प्रलप्रमाणबोधितेन पदार्थेन । इतरबाधः

दुर्बल प्रमाणबोधितस्य पदार्थस्य बावः । श्रप्राप्तबाघधः । अप्राप्तबाध इति। दुर्बलप्रमाणबोधितस्य

विनियोगदशामप्राप्तस्यैव बाघाधात् अप्राप्तबाघ इति
बाघ
इति व्यवहार इति भावः । कथमप्राप्तता
?
अत ग्राह- -दुर्बलेति ।
 
शाक
 

 
"निःश्रेण्यारोहणप्राप्यं प्राप्तिमात्रोपपादि च ।

एकमेव फलं प्राप्तुमुभावारोहतो यदा ॥

एकस्सोपानपङ्क्ति स्थो भूमि स्थञ्श्चापरस्तयोः ।

उभयोश्च जवस्तुल्यः प्रतिबन्धश्च नान्तरा ॥

विरोधिनस्तदेनोस्तदैको हि तत्फलं प्राप्नुयात्तयोः ।

प्रथमेन गृहीतेऽस्मिन् पश्चिमोऽवतरेन्मुधा ॥"
 
-
 

 
इत्यनेन प्रकारेण स्वरूपतः सत एवोत्तरोत्तरस्य स्वस्व विषयविनियोगे आकांक्षारूप.
-
कल्पनामूलोच्छेदात् श्रुतिकल्पना प्रतिबन्धेन अलब्धप्रमाणभावस्यैव बानादिति भावः ॥
 

 
[^
.] प्रमाणेन इति नास्ति क. पु.
 
मगी