This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनोव्याख्यासंवलितः
 
५७
 
कथंभावाकाङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्भावेन च पदार्था

अन्वीयन्ते । ([^)] न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रियभावनायाः

करणाकाङ्क्षा दघ्ध्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपत्त्या होम-

स्याश्रयत्वेनान्वयं यावदनुवर्तते, न तु दध्यन्वयमात्रेण निवर्तते; श्राश्रयत्वेन

च गृह्यमाणो होमः करणाकाङ्क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकांक्षा नाम

चतुर्थ्यस्ति, एवं विकृतेः कथंभावाकाङ्क्षा नोपकारान्वयमात्रेण निवर्तते;

उपकारपृष्ठभावेन यावत्पदार्थान्वयमनुवर्तते । अतश्चोपकारपृष्ठभावेन गृह्य-

माणाः पदार्थाः कथंभावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः पदार्थाः कथंभा-

वाकाङ्क्षया गृह्यमाणा अपि न प्रकरणग्राह्याः, प्रकृत्युपकारकतया तेषामाका-

ङ्क्षाभावात् । श्रदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशुनि-

 
[commentary]
 
विकृत्याकांक्षायाः प्राकृता ज्ञैङ्गैरेव शान्तत्वादुभयाकाङ्क्षाभावेन कथमौदुम्बरत्वान्वयदशायां

विकृतेरा काङ्क्षावत्वं इत्यत - आह--सातदेति । उपकाराः प्राकृतोपकाराः। पदार्थाः प्राकृ
-
ताः पदार्थाः। दृष्टान्तमाह--यथेति । इन्द्रियभावनायाः 'दध्नेन्द्रिय कामस्य जुहुया" दिति

वाक्यविहितायाः इन्द्रियभाव्यकभावनायाः । करणाकांक्षेति । अनुवर्तत इत्यत्रान्वेति ।

सिद्धस्येति । शिक्यस्थदध्नः व्यापारसंन्धमन्तरा फलसानत्वासंभवेनेत्यर्थः । होम-

स्येति । प्रकरणप्राप्तस्येति शेषः । श्राश्रयत्वेनेति । अन्वयं यावदिति । अन्वयपर्यन्त
-
मित्यर्थः । श्रयमाशयः - --न तावत् दध्नस्सिद्धस्य करणत्वं संभवति । तथात्वे व्यापार-

सम्बन्धं विना शिक्यस्थेनापि दध्ना फलोत्पत्तिप्रसक्तौ विधिवैयर्थ्यापातात् । अतस्तपरिहा-
रार्थ

रार्थं
दृष्टविधया स्वसाध्यव्यापारमपेक्षमाणो दधिरूपो गुणः स्वसांसाध्यभोजनहोमाद्यनेक
-
व्यापारसम्बन्धस्यानियमेन प्राप्तौ तद्बाधित्वा प्रकरणेन होमस्यैव समर्पणात् तस्यैव चाश्रय-

त्वेन सम्बन्धात् तावतैव च शान्ताकाङ्क्षो भवतीति । ननु सत्यामाश्रयाकाङ्क्षायां आ-

श्रयत्वेन होमस्यान्वयो युज्येत । न तादृशी काचिदाकाङ्क्षाऽस्ति । भावनाया अंशत्रय-

मात्रसाकांक्षत्वात् । अतः कथमाश्रयत्वेनान्वय इत्यत श्राह- -आश्रयत्वेनेति । नत्वि-

ति। "शक्यतेत्वत्र न चतुर्थ्यपेक्षाऽस्तीति वक्तुम् । करणापेक्षैव ह्येषा

प्रविततरा जाता" इति वार्तिकोक्तेरिति भावः । दार्ष्टान्तिके प्रकारमिममतिदिशति--ए-

वमिति । उपकारान्वयमात्रेणेति । उपकारस्य पदार्थजन्यत्वात् पदार्थानतिदेशे उप
-
कारातिदेशस्यापि वैफल्यात् तत्सार्थक्याय तज्जनकपदार्थान्वयपर्यन्तमनुवर्तते एवाकांक्षैति
ङ्क्षेति
भावः । कथंभावाकाङ्क्षया पदार्थानां ग्रहणेऽपि प्राकृतानां प्रकरणग्राह्यत्वशङ्कां निवार-
यति —

यति--
तत्रेति । हेतुमाह - --तेषामिति । प्राकृताङ्गाना मित्यर्थः । श्रीकांक्षाभावा-

दिति । सकृदनुष्ठानेनैव शास्त्रचारितार्थ्यादिति भावः । श्रदुम्बरत्वादीनां परं कथं प्र
-
करणग्राह्यता ? - अत आह--औदुम्वरत्वाय बरत्वादयस्त्विति । अन्यानुपकारका इति ।

तेषां विकृतिसन्निघाधावपूर्वतयैव पा<error></error><fix>ठा</fix>दद्य यावत्तैः कुत्राप्युपकारा जननादिति भावः । ननु

विकृतिसन्निधौ पठितानामुपहोमादीनामन्यानुपकारकतया साकाङ्क्षत्वेन तेषामपि प्रकरण-

विषयत्वं स्यादित्यत ग्रा--पशुनियोजनेति । अयमभिसन्धिः--विकृतिभावना तावत्
 

 
[^
.] न तूपकारमात्रेण. ख. पु.
 
व मी० न्या०
 
-