This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ प्रकरण-
चादृष्टरूप-
वाच्यम् ।
 
किं भावयेदिति । न च यूपानुवादेन तस्य विधीयमानत्वाद्यपस्य
यूपस्य चादृष्टरूप-
त्वात्तेनैवौदुम्रत्वस्य नैराकाङ्क्ष्यम्, श्राहवनोनीयेनेवाधानस्येति
वाच्यम् ।
यूपस्य केवलाद्वदृष्टरूपत्वाभावात् तस्य हि तद्रूपत्वे खादिरस्त्वादिकं केवलाह-
दृ-
ष्
टार्थं स्यात् । न च तत्संभवति । तथा सति खदिराभावे प्रतिनिधित्वेन कद.
-
रोपादानं न स्यात्, दृष्टार्थस्य प्रतिनिध्यभावात्, न हि खदिरजन्यमद्वदृष्टं

कदरेण क्रियत इत्यत्र प्रमाणमस्ति । अत एव नादृष्टार्थानां प्रतिनिधिः ।

तदुक्तम्-
2 VISK
 
-
 
'न देवताग्निशब्द क्रियमन्यार्थत्वात्' इति ।

 
अन्यार्थत्वात् मद्दअदृष्टार्थत्वात् । प्रतिनिधित्वेन चोपादानं कदरादेरुक्तं प्ग्रन्थे-

षु । तस्मान्न यूपस्य केवलाद्गदृष्टरूपत्वम् अपितु द्वदृष्टाद्वदृष्टसंस्कारगणो यूप

इति सांप्रदायिकाः ।
 

 
-
 

 
-
 
-
 

 
एवं चौदुम्बरत्वस्य न यूपमात्रेण नैराकाङ्क्ष्यम्, दृष्टसंस्कारस्य प्रकारा
-
न्तरेणापि सम्भवात् । अतश्चास्त्यौदुस्वम्बरत्वस्याकाङ्क्षा । विकृतेरप्यस्ति

 
[commentary]
 
न्तानुधावनं न युक्तमित्याशङ्कयाह - --न चेति । आहवनीयेनेवेति । नीयस्याह-
दृ-
ष्टरूपत्वेन तदर्थत्वेऽप्याघानस्य तेनैव यथा नैराकाङ्क्ष्यं, तथेत्यर्थः । तस्य यूपस्य ।

तद्रूपत्वे केवलादृष्टरूपत्वे । खादित्वादिकमित्या दिपदेन वैल्वत्वपालाशत्वादिकं गृह्य-

ते । अभावे अपचारे । कदरः श्वेतखदिरः । उपादानाभावे हेतुमाह - श्रद्ध--अदृष्टेति ।

कुतो न ? अत आह--नेति । अत एव अन्येन जननीयस्यादृष्टस्य अन्यस्मादुत्पत्तौ

प्रमाणाभावादेव । अदृष्टार्थानां प्रतिनिध्यभावे षाष्ठं सूत्रं प्रमाणयति--तदुक्तमिति ।

नेति । देवता इन्द्रादि । अग्निः हवनीयादिः । शब्दो मन्त्रः । क्रिया प्रयाजप्रो-

क्षणादिः । देवताश्च अग्नयश्च शब्दाश्च क्रियाश्च, तेषां समाहारः देवताग्निशब्द क्रियम् ।

एते न प्रतिनिधेयाः, अदृष्टार्थत्वादिति सूत्रार्थः । सूत्रमिदं "न्यार्थसंयोगा" दिति संयोग-

पदघटितमेवोपलभ्यतेऽन्यत्र । व्याख्यातं च ब्व्याख्यातृभिरेवमेव । अत्र परं अन्यार्थत्वा-

दिति दृश्यते । कदरस्य खदिरप्रतिनिधित्वाभावे इष्टापत्तौ ग्रन्थविरोधमाह - --प्रतिनिधी-

ति । ग्रन्थेध्ष्विति । कदरस्य प्रतिनिधित्वाभावे तद्विरुध्येतेति भावः । तस्मात् उक्त-

युक्तेः । दृष्टादृष्टेति । दृष्टानां छेदनतक्षणादीनां श्रदृष्टानां प्रोक्षणाञ्जनादीनां संस्काराणां

समुदाय इत्यर्थः । सांप्रदायिका इति । पार्थसारथिमिश्रप्रभृतय इत्यर्थः । उक्तं हि

पार्थसारथिमिक्षैः--"न तु यूपाख्यमेकं किञ्चिदस्ति । यदुत्पत्युपयोगिनः परि-

व्याणादयः परिधौ लुप्तार्थाः स्युः । छेदनादिविधयो हि सर्वे परस्परानपेक्षाः

काष्ठगतं दृष्टमदृष्टं वा यथायथं कार्यं गमयन्ति" इति । छेदनप्रोक्षणादिजन्य
दृ-
ष्
टादृष्टरूपाः संस्काराः काष्ठे वर्तमाना यूपशब्दाभिधेयाः" इति च ॥
 
.
 

 
यूपमात्रेण यूपस्वरूपमात्र संपादनेन । नैराकांच्ङ्क्ष्याभावे हेतुमाह - --दृष्टेति । एवञ्च

स्वरूपे आनर्थक्यात् अपूर्वपर्यन्तानुधावनस्यावश्यकत्वेन अस्त्येवापूर्वविषयिणी औदुम्ब
-
रत्वस्याकांक्षैङ्क्षेत्याह
- प्र
--अतश्चेति । ननु अस्त्वौदुम्बरत्वस्याकांक्षा, विकृतेस्तु शान्ताकां-

क्षत्वादुभयाकाङ्क्षाभावेन कथं प्रकरणप्ग्राह्यत्वम् ? अत आह - --विकृतेरिति । ननु
 
a