This page has not been fully proofread.

मीमांसान्यायप्रकाशः
 
[ प्रकरण-
चादृष्टरूप-
वाच्यम् ।
 
किं भावयेदिति । न च यूपानुवादेन तस्य विधीयमानत्वाद्यपस्य
त्वात्तेनैवौदुम्वरत्वस्य नैराकाइयम्, श्राहवनोयेनेवाधानस्येति
यूपस्य केवलाद्वष्टरूपत्वाभावात् तस्य हि तद्पत्वे खादिरस्वादिक केवलाह-
टार्थ स्यात् । न च तत्संभवति । तथा सति खदिराभावे प्रतिनिधित्वेन कद.
रोपादानं न स्यात्, ऋदृष्टार्थस्य प्रतिनिध्यभावात्, न हि खदिरजन्यमद्वष्टं
कदरेण क्रियत इत्यत्र प्रमाणमस्ति । अत एव नागष्टार्थानां प्रतिनिधिः ।
।तदुक्तम्-
2 VISK
 
'न देवताग्निशब्द क्रियमन्यार्थत्वात्' इति ।
अन्यार्थत्वात् मद्दष्टार्थत्वात् । प्रतिनिधित्वेन चोपादानं कदरादेरुक्तं प्रन्थे-
षु । तस्मान्न यूपस्य केवलाद्गष्टरूपत्वम् अपितु द्वष्टाद्वष्टसंस्कारगणो यूप
इति सांप्रदायिकाः ।
 

 
-
 

 
-
 
-
 
एवं चौदुम्बरत्वस्य न यूपमात्रेण नैराकाइयम्, दृष्टसंस्कारस्य प्रकारा
न्तरेणापि सम्भवात् । अतश्चास्त्यौदुस्वरत्वस्याकाङ्क्षा । विकृतेरप्यस्ति
न्तानुधावनं न युक्तमित्याशङ्कयाह - न चेति । आहवनीयेनेवेति । हनीयस्याह-
ष्टरूपत्वेन तदर्थत्वेऽप्याघानस्य तेनैव यथा नैराकाङ्दयं, तथेत्यर्थः । तस्य यूपस्य ।
तद्रूपत्वे केवलादृष्टरूपत्वे । खादित्वादिकमित्या दिपदेन वैल्वत्वपालाशत्वादिकं गृह्य-
ते । अभावे अपचारे । कदरः श्वेतखदिरः । उपादानाभावे हेतुमाह - श्रद्धष्टेति ।
कुतो न ? अत आह– नेति । अत एव अन्येन जननीयस्यादृष्टस्य अन्यस्मादुत्पत्तौ
प्रमाणाभावादेव । अदृष्टार्थानां प्रतिनिध्यभावे षाष्ठं सूत्रं प्रमाणयति – तदुक्तमिति ।
नेति । देवता इन्द्रादि । अग्निः हवनीयादिः । शब्दो मन्त्रः । क्रिया प्रयाजप्रो-
क्षणादिः । देवताश्च अग्नयश्च शब्दाश्च क्रियाश्च, तेषां समाहारः देवताग्निशब्द क्रियम् ।
एते न प्रतिनिधेयाः, अदृष्टार्थत्वादिति सूत्रार्थः । सूत्रमिदं "न्यार्थसंयोगा" दिति संयोग-
पदघटितमेवोपलभ्यतेऽन्यत्र । व्याख्यातं च ब्याख्यातृभिरेवमेव । अत्र परं अन्यार्थत्वा-
दिति दृश्यते । कदरस्य खदिरप्रतिनिधित्वाभावे इष्टापत्तौ ग्रन्थविरोधमाह - प्रतिनिधी-
ति । ग्रन्थेध्विति । कदरस्य प्रतिनिधित्वाभावे तद्विरुध्येतेति भावः । तस्मात् उक्त-
युक्तेः । दृष्टादृष्टेति । दृष्टानां छेदनतक्षणादीनां श्रदृष्टानां प्रोक्षणाजनादीनां संस्काराणां
समुदाय इत्यर्थः । सांप्रदायिका इति । पार्थसारथिमिश्रप्रभृतय इत्यर्थः । उक्तं हि
पार्थसारथिमिक्षैः-"न तु यूपाख्यमेकं किञ्चिदस्ति । यदुत्पत्युपयोगिनः परि-
व्याणादयः परिधौ लुप्तार्थाः स्युः । छेदनादिविधयो हि सर्वे परस्परानपेक्षाः
काष्ठगतं दृष्टमदृष्टं वा यथायथं कार्यं गमयन्ति" इति । छेदनप्रोक्षणादिजन्य ह
टाडष्टरूपाः संस्काराः काष्ठे वर्तमाना यूपशब्दाभिधेयाः" इति च ॥
 
.
 
यूपमात्रेण यूपस्वरूपमात्र संपादनेन । नैराकांच्याभावे हेतुमाह - दृष्टेति । एवञ्च
स्वरूपे आनर्थक्यात् अपूर्वपर्यन्तानुधावनस्यावश्यकत्वेन अस्त्येवापूर्वविषयिणी औदुम्ब
रत्वस्याकांक्षैत्याह
- प्रतश्चेति । ननु अस्वौदुम्बरत्वस्याकांक्षा, विकृतेस्तु शान्ताकां-
क्षत्वादुभयाकाङ्क्षाभावेन कथं प्रकरणप्राह्यत्वम् ? अत आह - विकृतेरिति । ननु
 
a