2023-02-20 11:47:18 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
सारविवेचनी व्याख्यासंवलितः
ननु प्राकृताना मङ्गानामाकाङ्क्षाभावे तेषां विकृतौ संबन्धः केवलं स्थाना-
त् स्यात्: अपूर्वाणां त्वाकाङ्क्षा सत्त्वाद्विकृतेरप्याकाङ्क्षावस्वात् तेषां तत्स-
स्वन्धः प्रकरणात्स्यात्, प्रकरणं च स्थानात झटिति विनियोजक मित्यपूर्वा-
सामेव प्रथमसम्बन्धः स्यात्, न प्राकृतानामिति ।
(१) अत्रोच्यते - सत्यं प्रकरणं झटिति विनियोजकम् । तथापि प्रमाणब
लावलात्प्रमेयवलावलस्य ज्यायरत्वादुक्तविघयोपस्थितानां प्राकृतानामेव लम्ब-
न्धो युक्तर ( २ ) स्यात्, क्लुप्तोपकारत्वात्, न वैकृतानां, कल्प्योपकारत्वात् ।
विकृतेश्योपकारक पदार्थाकाङ्क्षा, न पदार्थमात्राणामिति युक्तः प्रथमं प्राकृता-
ङ्गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् ॥
यत्तु विकृतौ प्राकृताङ्गानुवादेन विधोयते- यथा 'औदुम्बरो यूपो भवति'
इति यूपानुवादेन औदुम्बरत्वम्, तत्प्रकरणाद्गृह्यते।
ननु न तत्प्रकरणाद्गृह्यते अक्रियात्वात् । क्रियाया एव प्रकरणग्राह्यत्वा-
दिति चेत् सत्यम् । तथापि तु तावद्विधीयमानस्यौदुम्बरत्वस्यास्त्येवाकाङ्क्षा
तेनैवाकाङ्क्षोपरमात् प्राकृताङ्गग्रहणमेव न स्यादिति शङ्कते–नन्विति ॥
आशङ्कां निराकरोति — ऋत्रोच्यत इति । प्रमाणबलावलादिति । निरूपितमेत-
दघस्ताल्लिङ्गनिरूपणावसरे । एवं च प्रमाणस्वरूपपर्यालोचनायां यद्यपि स्थानापेक्षया
प्रकरणं प्रबलं, तथापि प्रमेयस्वरूपपर्यालोचनायां प्राकृतानामङ्गानां क्लृप्तोपकारकत्वेन
स्वतः प्राबल्यात तेषामेव प्रथमं सम्बन्धी युक्त इति भावः । ननु नात्र क्लृप्तोपकारक-
त्वेन कल्प्योपकारकत्वेन वा प्रयोजनम् ; किन्तु विकृतिः पदार्थान् परमाकाङ्क्षति । श्रा-
काङ्क्षा च सन्निहितैरेव शाम्यतीति कथं प्राकृताङ्गसम्बन्धः ? इत्यत - विकृते-
रिति । न पदार्थमात्राणामिति । स्यादेवं यदि पदार्थत्वरूपेण पदार्थानामाकाङ्क्षा,
न त्वेतदस्ति; किन्तु उपकारजनकत्वेन, तच्च प्राकृतानामेव पूर्व प्रकृतौ कृतकार्यतया
-
क्लृप्तमिति तेषामेव प्रथमं सम्बन्ध इत्यर्थः । विकृतौ तौ प्रकरणस्याविनियोजकत्वमुपसंह-
रति-- ततश्चेति ॥
न सर्वथा विकृतौ न प्रकरणं विनियोजकं, किन्तु विकृतावपि यत् प्राकृताङ्गानुवादेन
विधीयते तदपि प्रकरणेन गृह्यत इत्याह -- यत्त्विति । एवञ्च प्रकृतौ, प्राकृताङ्गानुवादेन
विहिताङ्गविषये विकृतौ च प्रकरणं विनियोजकं भवतीति सिद्धम् । श्रौदुम्बरो यूपो
भवतीति । औदुम्बर उदुम्बरवृतीयकाष्ठनिर्मितः । "सोमा पोष्णं त्रैतमालभेत पशु-
कामः" इति वाक्यविहितकाम्यपशुयागसन्निधौ श्रुतमिदम् ।
-
पूर्वोतं द्रव्यादेः प्रकरणग्राह्यत्वाभावं मनसि निधाय शङ्कते - नन्विति । प्रस्त्येवा-
काङ्क्षेति। प्रकरणग्रहणं तूभयाकाङ्क्षानिबन्धनम्। तच्चात्रास्ति । श्रौदुम्बरत्वस्याकृता-
र्थत्वात् । तच्च नापलपितुं शक्यम् । यदितु तस्य द्रव्यरूपत्वं, तर्हि क्रियाद्वारं प्रहणं भवि-
ब्यतीत्यर्थः । ननु यत्र धर्माणां स्वरूपार्थतायामानर्थक्यं तत्रैव प्रधानापूर्वपर्यन्तानुधावनं,
यत्र तु स्वरूपे नानर्थक्यं तत्र तदर्थत्वेनोपपत्तौ तावतैव च नैराकांदयात् प्रधानापूर्वपर्य
१. उच्यते । ख. पु. २. स्यात् इति नास्ति ख. पुस्तके ।