2023-02-20 11:47:17 by ambuda-bot
This page has not been fully proofread.
[ प्रकरण-
न चात्र तेषामुपस्थापकाभावः, उपमितिलक्षणप्रमाणेन तेषामुपस्थितत्वा-
त् । सौर्यवाक्ये हि दृष्टे औषधद्रव्यकत्वेन एकदैवत्यकत्वेन च सादृश्येन
आग्नेयवाक्यमुपमीयते, गवयदर्शनाद्गोरुपमानवत् । तस्मिञ्चोपमिते तेन तद्-
थ ज्ञायते । सा त्र्यंशा भावना । तत्र सौर्यवाक्ये भावनायाः भाव्यकरणयोः
सत्त्वात् इतिकर्तव्यताकाङ्क्षायामुपकारपृष्ठभावेनाग्नेयेतिकर्तव्यताऽतिदिश्यते-
सौर्ययागेन ब्रह्मवचंसं भावयेदा (१)ग्नेयवदुपकृत्येति । तथा च तयैवाकाङ्क्षोप-
शमान्न विकृतेः प्रकरणमस्ति । अन्यतराकाङ्क्षारूपस्थानादेव चापूर्वाङ्गग्रहणम् ।
न च प्राकृताङ्गग्रहणमेव विकृती प्रकरणात् किं न स्यादिति वाच्यम् ।
तेषामपि प्रकृत्युपकारकतयाऽऽकाहोपशमात् ।
मीमांसान्यायप्रकाशः
प्राकृतानामत्रोपस्थापकप्रमाणाभावमाशङ्कय परिहरति - न चेति । तेषां प्राकृताङ्गा-
नाम् । उपमितीति । उपमानेत्यर्थः । इदं हि मीमांसकानामुपमिति स्वरूपम् - नागरिकः
पुरुषो नगरे दृष्टगुः कदाचिदरण्यं गतस्तत्र गवयाख्यं मृगं पश्यति । ततस्तद्गतं गोसा-
दृश्यं प्रत्यक्षेणावगच्छति । अनन्तरंच समानसम्वित्संवेद्यतया गवयसादृश्यं गोनिष्ठं स्म-
रति-एतत्सदृशी मदीया गौरिति । सैव चोपमितिरित्युच्यते । तत्करणं च गवय पिण्डदर्श -
नमुपमानमिति । सौर्यवाक्ये । "सौर्य चरुं निर्वपेदिति वाक्ये । औषधद्रव्यकत्वेन
स्वविधेयकर्मण ओषधिप्रभवत्रीह्यादिसम्पाद्यद्रव्यकत्वेन । एकदैवत्यत्वेन एकत्वसंख्या-
विशिष्ठदेवतावत्वेन । आग्नेयवाक्यमिति । 'यदाग्नेय' इति वाक्यमित्यर्थः । यथा
गवयदर्शनात् तत्सदृश्या गोः स्मरणं, तथा सौर्यवाक्यदर्शनात् तत्सदृशस्याग्नेयवाक्यस्य
स्मरणमित्यर्थः। श्राग्नेयस्यापि औषघद्रव्यकत्वात् एकदेवताकत्वाच्चेति भावः । तेन
वाक्येन। भावनाया इतिकर्तव्यताकाङ्क्षायामिति संबन्धः । भाव्यकरणयोस्सत्वादिति ।
ब्रह्मवर्चसरूपस्य भाव्यस्य धात्वर्थरूपस्य करणस्य च सत्वादित्यर्थः । यद्यप्यत्र न श्रुतस्य
निर्वापस्य करणत्वेनाऽन्वयस्सम्भवति तथापि द्रव्यदेवतासम्बन्धान्वयानुपपत्तिकल्पितस्य
यागस्य करणत्वेनान्वय इति बोध्यम् । उपकारपृष्ठभावेनेति । प्रथमतो विकृतिभाव-
नया प्राकृतोपकारस्यैवापेक्षणात् तस्यैव प्रथममतिदेशे तत्संपादकत्वेन तत्पश्चान्द्भावितये.
त्यर्थः । श्रग्नेयवदिति । यथा आग्नेयेन प्रयाजाद्युपकृतेन स्वर्गो भावितः तद्वदित्यर्थः ।
एवञ्च प्राकृतैरेवाज्ञैः विकृत्याकाङ्क्षायाश्शान्तत्वात् नोभयाकाङ्क्षालक्षणं प्रकरणं विकृतौ
सम्भवतीत्याह- तथा चेति । कथं तर्ह्यपूर्वाङ्गानामन्वयः ? - अन्यतरेति
शनिष्ठप्रधान विषयकाकाङ्क्षावशादेवेत्यर्थः ।
।
ननु वैकृताङ्गानां प्रकरणग्राह्यत्वाभावेऽपि प्राकृतानामेव विकृतिसम्बन्धः प्रकरणात्
स्यात् । तदन्वयदशायां विकृतेराकांक्षासत्वात् इत्याशङ्कयाह - न चेति । तेषामपीति ।
यद्यपि विकृतेराकांक्षाऽस्ति, तथापि प्राकृतानां प्रकृतिसन्निधौ पठितत्वेन तदुपकारसंपादने-
नैव तेषामाकाङ्क्षाशान्तेः न विकृत्यन्वयदशायामाकाङ्क्षास्तीत्यर्थः ॥
ननु प्राकृताज्ञानामाकाङ्क्षाभावे तेषां विकृतिसम्बन्धस्य अन्यतराकाङ्क्षारूपस्थानग
म्यत्वेन वैकृताङ्गानां चोभयाकाङ्क्षालक्षण प्रकरणग्रहण संभवात् पूर्व तैरेव विकृतेः सम्बन्धे
१. आग्नेयवदिति. ख. पु.
-
१