This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
तत्सिद्धं प्रकरणं क्रियाया एव विनियोजकमिति ।
 
9
 

तच्च प्रकरणं द्विविधम्
-
--महाप्रकरणमवान्तरप्रकरणं चेति । तत्र फलभा-

चनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृता-

वेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा- -दर्शपूर्णमासादिः । तत्र चोभ-

याकाङ्क्षारूपं प्रकरणं संभवति, आकाङ्क्षानुपरमात् ।
 
सारविवेचिनोव्याख्या संवलितः
 

 
विकृतौ तु न प्रकरणं सम्भवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः,

यथा सौर्यादिः । तत्र च यान्यपूर्वाण्यङ्गानि पठ्यन्ते उपहोमादीनि तेषां न

प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किंभावये दित्यस्त्याकाङ्क्षा, तथापि

प्रधानस्य न कथंभावाकाङ्क्षास्ति, प्राकृतैरेवाङ्गैर्निराकाङ्क्षत्वात् । न च प्राकृता-

नामङ्गानामन्त्रापठितत्वेनाप्रत्यक्षत्वाद्वैकृतानां तु पठितत्वन प्रत्यक्षत्वात्तैरेवाका-
हो

ङ्क्षो
पशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्ल सोकॢप्तोपकारत्वेन झटित्याकाङ्को-

पशमने सामार्थ्यात्, प्राकृतानां तु लुकॢप्तोपकारत्वेन तच्छुमने सामर्थ्यात् ।
 

 
[commentary]
 
ग्राहकत्वेन गृह्यते । नैवं द्रव्यम्" 'द्रव्यस्य अक्रियात्मकत्वात् प्रकरणाग्रह -
गा
-
णा
भिधानार्थम्' इत्यादिभाष्यवार्तिकन्यायसुधादिस्वरसादित्यर्थः । भूयोनुग्रहस्यैव
 

न्याय्यत्वादिति भावः ॥
 
"
 

 
प्रकरणमिदानीं विभजते - --तच्चेति । तत्र महाप्रकरणावान्तरप्रकरणयोर्मध्ये ।
श्रा

काङ्क्षानुपरमादिति । प्रधानकथम्भावाकाङ्क्षायाः प्रयाजाद्यन्वयमन्तरा अशान्तेः

प्रयाजीयोपकार्याकाङ्क्षायाश्च प्रधानसम्बन्धमन्तरा प्रशान्तत्वाच्चेत्यर्थः ।
 

 
यत्रेति । सौर्यादिरिति। "सौर्यं चरुं निर्व॑पेद्ब्रह्मवर्चसकाम" इति विहितेष्टि-

स्सौर्येष्टिः। यत्र च भावनापेक्षिताङ्ग पौष्कल्यं विधायकवाक्याम्नानं सा विकृतिरित्यर्थः ।

पूर्वाणि प्राकृतानि । विकृतिसन्निधावावेवापूर्वतया विहितानीति यावत् । अत्र-प्रकृति-

पदार्थमाह - --यत्रेति । समप्राङ्गोपदेश इति । अपेक्षितयावदङ्गवाक्याम्नानमित्यर्थः ।

ननु विकृतावपि प्रधानस्योपकारकाकाङ्क्षासत्वात् अङ्गानां चोपकार्याकाङ्क्षासत्वात् प्रस्तु

परस्पराकाङ्क्षया ऽङ्गत्वं इत्यत आह --तत्र यद्यपोपीति । तेषां वैकृताङ्गानाम् । न कथ-
थं-
भावाकांक्षास्तीति । वैकृताकाङ्क्षान्वयदशायामिति शेषः । तर्ह्युत्पन्ना वैकृती आकाङ्क्षा

केन शाम्यति ? तदाह - --प्राकृतैरेवेति । एवं च प्रथमतः प्राकृताङ्गविषयिण्या एवा-

काङ्क्षाया उत्थानात् तदन्वये च आकाङ्क्षायाः शान्तत्वात् अपूर्वाङ्गान्वयदशायां कुतः

प्रधानाकाङ्क्षेति भावः । ननु वैकृतानां सन्निहितत्वेन प्रत्यक्ष श्रुतत्वेन च प्रथमं तेषामेवा-

न्वयोऽस्तु, तावतैव चाकाङ्क्षाऽपि शाम्यतु किमर्थमप्रत्यक्षाणामनुपस्थितानां च प्राकृ·
-
तानामज्ञाङ्गानां नैराकाड्दङ्क्ष्यसंपादकत्वं इत्याशङ्कयाह - --न चेति । अक्लृप्तोपकारक.
-
त्वेनेति । अद्ययावदेतेषामनुष्ठानाभावेन एतावताव्प्येतदीयोपकारस्य कुत्राप्यसिद्धेरित्य
-
र्थः । एवं च न पाठमात्रमाकाङ्क्षाशामकत्वप्रयोजकम्; किन्तु येषामुपकारजननसामर्थ्
यं
पूर्वमेव क्लृप्तं तेषामेवाकाङ्क्षाशामकता । तच्च प्राकृतानामेवेति न वैकृतैराकाङ्क्षाशान्ति-

रिति भावः ।