2023-02-20 11:47:17 by ambuda-bot
This page has not been fully proofread.
निरूपणम् ]
तत्सिद्धं प्रकरणं क्रियाया एव विनियोजकमिति ।
9
तच्च प्रकरणं द्विविधम्
- महाप्रकरणमवान्तरप्रकरणं चेति । तत्र फलभा-
चनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृता-
वेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा- दर्शपूर्णमासादिः । तत्र चोभ-
याकाङ्क्षारूपं प्रकरणं संभवति, आकाङ्क्षानुपरमात् ।
सारविवेचिनोव्याख्या संवलितः
विकृतौ तु न प्रकरणं सम्भवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः,
यथा सौर्यादिः । तत्र च यान्यपूर्वाण्यङ्गानि पढयन्ते उपहोमादीनि तेषां न
प्रकरणं विनियोजकम् । तत्र यद्यपि तेषां किंभावये दित्यस्त्याकाङ्क्षा, तथापि
प्रधानस्य न कथंभावाकाङ्क्षास्ति, प्राकृतैरेवानिराकाङ्क्षत्वात् । न च प्राकृता-
नामङ्गानामन्त्रापठितत्वेनाप्रत्यक्षत्वाद्वैकृतानां तु पठितत्वन प्रत्यक्षत्वात्तैरेवाका-
होपशम इति वाच्यम् । तेषां पठितत्वेऽपि अक्ल सोपकारत्वेन झटित्याकाङ्को-
पशमने सामार्थ्यात्, प्राकृतानां तु लुप्तोपकारत्वेन तच्छुमने सामर्थ्यात् ।
ग्राहकत्वेन गृह्यते । नैवं द्रव्यम्" 'द्रव्यस्य अक्रियात्मकत्वात् प्रकरणाग्रह -
गाभिधानार्थम्' इत्यादिभाष्यवार्तिकन्यायसुधादिस्वरसादित्यर्थः । भूयोनुग्रहस्यैव
न्याय्यत्वादिति भावः ॥
"
प्रकरणमिदानीं विभजते - तच्चेति । तत्र महाप्रकरणावान्तरप्रकरणयोर्मध्ये ।
श्राकाङ्क्षानुपरमादिति । प्रधानकथम्भावाकाङ्क्षायाः प्रयाजाद्यन्वयमन्तरा अशान्तेः
प्रयाजीयोपकार्याकाङ्क्षायाश्च प्रधानसम्बन्धमन्तरा प्रशान्तत्वाचेत्यर्थः ।
यत्रेति । सौर्यादिरिति। "सौर्य चरुं निर्व॑पेद्ब्रह्मवर्चसकाम" इति विहितेष्टि-
स्सौर्येष्टिः। यत्र च भावनापेक्षिताङ्ग पौष्कल्यं विधायकवाक्याम्नानं सा विकृतिरित्यर्थः ।
पूर्वाणि प्राकृतानि । विकृतिसन्निवावेवापूर्वतया विहितानीति यावत् । अत्र-प्रकृति-
पदार्थमाह - यत्रेति । समप्राङ्गोपदेश इति । अपेक्षितयावदवाक्याम्नानमित्यर्थः ।
ननु विकृतावपि प्रधानस्योपकारकाकाङ्क्षासत्वात् नां चोपकार्याकाङ्क्षासत्वात् प्रस्तु
परस्पराकाङ्क्षया ऽङ्गत्वं इत्यत आह -तत्र यद्यपोति । तेषां वैकृताङ्गानाम् । न कथ-
भावाकांक्षास्तीति । वैकृताकाङ्क्षान्वयदशायामिति शेषः । तत्पन्ना वैकृती आकाङ्क्षा
केन शाम्यति ? तदाह - प्राकृतैरेवेति । एवं च प्रथमतः प्राकृताङ्गविषयिण्या एवा-
काङ्क्षाया उत्थानात् तदन्वये च आकाङ्क्षायाः शान्तत्वात् अपूर्वाङ्गान्वयदशायां कुतः
प्रधानाकाङ्क्षति भावः । ननु वैतानां सन्निहितत्वेन प्रत्यक्ष श्रुतत्वेन च प्रथमं तेषामेवा-
न्वयोऽस्तु, तावतैव चाकाङ्क्षाऽपि शाम्यतु किमर्थमप्रत्यक्षाणामनुपस्थितानां च प्राकृ·
तानामज्ञानां नैराकाड्दयसंपादकत्वं इत्याशङ्कयाह - न चेति । अक्लृप्तोपकारक.
त्वेनेति । अद्ययावदेतेषामनुष्ठानाभावेन एतावताव्येतदीयोपकारस्य कुत्राप्यसिद्धेरित्य •
र्थः । एवं च न पाठमात्रमाकाङ्क्षाशामकत्वप्रयोजकम्; किन्तु येषामुपकारजननसामर्थ्य
पूर्वमेव क्लृप्तं तेषामेवाकाङ्क्षाशामकता । तच्च प्राकृतानामेवेति न वैकृतैराकाङ्क्षाशान्ति-
रिति भावः ।