2023-02-20 11:47:17 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ प्रकरण-
च कथम्भावाकाङ्क्षायामुपकारसम्पादनमतिदिश्यत इत्युक्तम् । यदि च कथम्भा-
बाकाङ्क्षायां सिद्धं वस्त्वन्वययोग्यं स्यात् तदा (१) सम्पादनपर्यन्तं धावनं ( २ ) प्र.
न्थकृतामनर्थकं स्यात् । मतश्च क्रियाया एव इतिकर्तव्यतात्वम्, कथम्भावाका-
वागृहीतस्येतिकर्तव्यतात्वात्, इतिशब्दस्य च प्रकारवाचित्वात् । कर्तव्यस्य
'इति' प्रकार: 'इतिकर्तव्यता' । प्रकारश्च सामान्यस्य मेदको विशेष इत्युक्तम् ।
कर्तव्यस्य च विशेषः कर्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्तव्य-
तात्वम्, किन्तु क्रियाया एव, सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वम् । तदपि
श्रुत्यादिना, न तु प्रकरणात् । यथाहु:-
नावान्तरक्रियायोगाद्वते वाक्योपकल्पितात् ।
गुणद्रव्ये कथंभावैगृहन्ति प्रकृताः क्रियाः ॥ इति ।
अत एव 'बहिर्देवसदनं दामी' त्यादिमन्त्राणां (३) लिङ्गादङ्गत्वम्, न तु
प्रकरणादित्युक्तमर्थवादाधिकरण पूर्वपक्ष
समाप्तौ (४) राण के। क्वचिद्रव्यस्येतिक-
'व्यतात्वाभियानमङ्गत्वाभिप्रायं द्रष्टव्यम् । बहुग्रन्थस्वरसादुक्तयुक्तेश्चेति ।
भावः । उपकारसम्पादन मिति । विकृतिभावनायाः कथंभावाकांक्षायां प्रथमतः प्राकृत-
स्योपकारस्यातिदेशः तत्पृष्ठभावेन च पदार्थानामतिदेश इत्युक्तमित्यर्थः । इतिकर्तव्य-
ताशब्दार्थपर्यालोचनयापि तदेवाऽवगम्यत इत्याह — इतीति । इत्युक्तमिति । पूर्वम
स्माभिरिति शेषः । श्रादिपदेन संख्यादीनां सङ्ग्रहः । त्वेऽपि प्रकरण विनियोज्यत्वे
सिद्धं नस्समीहितं इत्यताह - तद्पीति । नावान्तरेति । उक्तार्थमिदम् । अत एव
सिद्धस्य प्रकरणग्राह्यत्वाभावादेव । राणक इति । अयं हि तत्रत्यो ग्रन्थः - "व्यापा-
रग्राहिणा प्रकरणेन साक्षादग्रहणायोगात् उच्चारणद्वारा तद्ग्रहणं तद्ग्रह-
गाचोच्चारणार्थता इत्यन्योन्याश्रयापत्तेः न प्रकरणपाठमात्रेण विनियोगो
युक्तः । सामर्थ्यान्तु अभिधान क्रियावगमे तद्वारा प्रकरणग्रहणोपपत्ते: अनुच्च-
रितस्याभिधानाशक्तेः कर्मकालोच्चारणसिद्धरिति भावः" इति । ननु – "वि
धिर्हि समानपदोपात्तात् धात्वर्थात् भावनायाः सन्निकृष्टः प्रथममेव तामव-
रुध्य पुरुषार्थाय गमयति, प्रवर्तनात्मकत्वात्; अपुरुषार्थफले च व्यापारे पुरु
षस्य प्रवर्तयितुमशक्यत्वात् । तेन प्रवर्तनात्मकविध्यन्वयादेव समीहित रूपे
भाव्येऽपेक्षिते तद्विशेषमात्रं वाक्यादवगम्यते । तस्मिश्चावगते समानपदो-
पात्तो धात्वर्थः करणतया स्वीक्रियते । द्रव्यादि तु इतिकर्तव्यतया" इति न्या-
यरत्नमालापर्यालोचनया द्रव्यस्यापीति कर्तव्यतात्वेनान्वयोऽस्त्येवेति प्रतीतेः कथं तन्नि
षेधः शक्यते कर्तुमित्यत ग्राह- क्वचिदिति । बहुप्रन्थस्वरसादिति । "न द्रव्यं तेन
श्राकांक्ष्यते । इतिकर्तव्यतां हि स आकांक्षति। होमश्चेतिकर्तव्यता न द्रव्यम्" ।
"द्रव्याणां वाक्यसंयुक्तक्रियानिर्वर्तनाद्विना ।
न प्रयोजनमस्त्यन्यत् कथंभावाद्यसङ्गतेः ।
यथा होमः क्रियात्मकत्वात् किमित्यपेक्षमाणः प्रधानकथंभावेन इत्थमनु.
१. उपकारसम्वादनपर्यंन्तानुषाव नं. ख. पु. २. ग्रन्थकाराणां ३. मन्त्रस्य. ख. ४. राणाकेन. ख. पु