This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनी व्याख्यासंवलितः
 
५१
 
यागो भावार्थाधिकरणन्यायेन करणतयान्वेति--यागेन स्वर्गं भावयेदिति । तत्र

कथमिति ([^)] कथं भावाकाङ्क्षा जायते । तस्यां चाकाङ्क्षायां यत्संनिधौ पठितमश्रय-
रूय-
माणफलकं च क्रियाजातं तदेवोपकार्याकाङ्क्षा ([^)] यामितिकर्तव्यतात्वेनान्वय-

मनुभवितुं योग्यं, क्रियाया एव लोके कथंभावाकाङ्क्षा या यामन्वयदर्शनात् । न हि

कुठारेण छिन्द्यात्कथमित्याकाङ्क्षायां हस्त इति केवलमुबाच्चार्यमाणोऽपि हस्तो-

न्वयं प्राप्नोति । किं तहिं ? हस्तेनोद्यम्य निपात्येत्युच्चार्यमाणे उद्यमननि-

पातने एव । ([^)] हस्तोऽपि तंद्वारेणैवान्वयं प्राप्नोतीति सार्वजनीनमेतत् ।
 

 

 
किं च कथंभावाकाङ्क्षा नाम करणगतप्रकाराकाङ्क्षा । ([^)] थमोः प्रकारवा-

चित्वात् । सामान्यस्य भेदको विशेषः प्रकारः । सामान्यं च क्रियारूपमेवाख्या-

तेनोच्यते । 'यजेत स्वर्गकाम' इत्यस्य ह्ययमर्थ:- थः--यागेन तथा कर्तव्यं यथा

स्वर्गो भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति। न हि ब्राह्मण-

विशेषः परिव्राजकादिरब्राह्मणो भवति । एवं च करणगतक्रियाविशेषाकाङ्क्षा-.

परनामधेयकथंभावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । स च करणगतः क्रिया-

विशेषोऽन्वाधानादिब्राह्मणतर्पणान्तःक्रियारूप एवेति युक्तं तस्य प्रकरणेन ग्रह-

णम् । ([^)] तस्य च करणगतत्वं तदुपकारकत्वमेव, तेन विना यागेनापूर्वाजौ ।

ननात् । न ह्युद्यमननिपातन ([^)] व्यतिरेकेण कुठारेण द्वैधीभावो जन्यते । तत्सि
खं
-
द्धं
कथंभावाकाङ्क्षायां क्रियैवान्वेतीति
 
-
 

 
अत एव द्रव्यदेवतयोर्यागसंपादनद्वारान्वयः साम्प्रदायिकैरुक्तः । विकृतौ

 
[commentary]
 
घस्तात् । समानपदोपात्त इति हेतुगर्भविशेषणम् । सिद्धस्य वस्तुनः साक्षादितिकर्त-

व्यतात्वेनान्वयाभावं दर्शयति--न हीति । केवलमिति । क्रियापदोच्चारणं विनेत्यर्थः ।

सार्वजनीनमिति । सर्वजनप्रसिद्धोऽयं व्यवहारो नात्रविशेषतो वक्तव्यमस्तीत्यर्थः ।
 

 
किञ्च कथम्भावाकाङ्क्षास्वरूप विवेचनेनाप्ययमेवार्थस्सिध्यतीत्याह- -किञ्चेति । प्र-

कारवाचित्वादिति । 'प्रकारवचने थाल्' इति सूत्रात् प्रकारवचन इत्यनुवृत्य 'किम-

श्चेति सूत्रेण किंशब्दात् थमो विधानादिति भावः । श्राख्यातेनोच्यत इति । "दर्श -
-
पूर्णमासाभ्यां स्वर्गकामीमो यजेत" इति वाक्येन तत्तद्व्यापाराणामेव सामान्यतो भाव-

नात्वेनोक्तृत्वादिति भावः । श्रख्यातस्य तत्तदुत्पत्यनुकूलव्यापारसामान्यवाचित्वमेवो-

पपादयितुमारभते - --यजेतेत्यादिना । श्रन्वाधानादोदीति । अन्वाधानं दर्शपूर्णमास ·
-
योरादौ "ममाग्नेवर्चः" इत्यादिभिर्मन्त्रैराहवनीयादिष्वग्निषु काष्ठाधानम् । ब्राह्मण-

तर्पणं भोजनादिना ऋत्विजां प्रीतिसंपादनम् । करणगतः यागादिरूपधात्वर्थगतः ।

ननु धात्वर्थस्यैव भावनाकरणत्वात् तस्य च क्रियारूपत्वेन कथं तद्गतत्वमन्वाधानादी-

नाम् ? ता - अत आह--तस्य चेति । करणापेक्षितोपकारजनकत्वमेव करणगतत्वं, न तु

तन्निष्ठत्वम् । अतो न दोष इति भावः ।
 

 
अत एव क्रियाया एव कथंभावाकांक्षायामन्वयादेव । यागसंपादनद्वारेति ।

यागस्वरूपनिष्पादनस्य क्रियात्वेन तद्वाराऽन्वयो द्रव्यदेवतयोंःयोः सिद्धयोरपि सम्भवतीति
 
-
 

 
[^
.] कथम्भावाकाङ्क्षायां इति. क. पु. [^.] कांक्षया, [^.] हस्तांताद्यपि, [^.] थमुनः, [^] ततश्च.

[^
.] व्यतिरेके उद्यमननिपातने एव हस्तादिद्वारेया णान्वयं प्राप्तुनुतः