This page has been fully proofread once and needs a second look.

मोमांसान स्वतन्यायप्रकाशः
 
[प्रकर
 
न स्वतन्त्र
त्रफलार्थत्वमिति । तदुक्तम्-
-
 
'द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर्थवादः स्यात्' इति ।
मन्

 
त्र द्रव्ये फलश्रुतिः ([^)] "यस्य पर्णमयो जुहूर्भवति न स पापश्श्लोक

शृणोति" इत्येवमाद्या । संस्कारे फलश्रुतिः "यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य

वृङ्ते' इत्येवमाद्या । कर्मणि फलश्रुतिः 'वर्म वा एतद्यज्ञस्य क्रियते यत्प्रया-

जानूयाजा इज्यन्ते' इत्याद्या । कर्मपदं चारादुपकारक कर्मपरं द्रष्टव्यम्, संस्का-

रकर्मणः पृथक्संकीर्तनादित्यास्तां तावत् ॥
 

 
( प्रकरणस्य क्रियैकबिविषयत्वनिरूपणम् )
 
HER
 

 

 
तदिदं प्रकरणं क्रियाया एव विनियोजकम्, न द्रव्यगुणयोः । तयोस्तु

क्रियायोगाद्विनियोजकम् । कुत इति चेत् ? शृणु--'यजेत स्वर्गकाम' इत्यत्रा-

ख्यातांशेनार्थी भावनाभिधीयते - --भावयेदिति । सा चांशत्रयमपेक्षते - --किं भाव-

येत्, केन भावयेत्; कथं भावयेदिति । तत्र भाव्याकाङ्क्षायां षष्ठाद्यन्यायेन

स्वर्गो भाव्यतयान्वेति - --स्वर्गं भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो

 
[commentary]
 
प्रकरणप्राबल्यनिरूपणावसरे इति शेषः । प्रयाजादीनां स्वतन्त्रफलार्थत्वाभावे चातुर्थिकं

सूत्रं प्रमाणयति--द्रव्यसंस्कारेति । यस्य पर्णमयीत्यादौ द्रव्ये, यदाङ्क्त इत्यादौ

संस्कारे, यत्प्रयाजानूयाजाः इत्यादावर्थकर्मणि च फलश्रवणं अर्थवादस्स्यात् ।

तेषां क्रत्वर्थत्वादिति सूत्रार्थ: । प्रत्येकमुदाहरति--द्रव्येति । अनारभ्यवादोऽयं यस्येति ।

यस्य यजमानस्य यज्ञे दर्शपूर्णमासादौ जूहूः पलाशवृक्षीयकाष्ठनिर्मिता ( जुहूः होमसा-

धनद्रव्यधारणार्थः पात्रविशेषः ) भवेत् स यजमानः पापं श्लोकं अपकीर्ति कदाऽपि न

शृणुयात्, इति, यजमानः स्वे चक्षुषी अञ्जनेनाऽऽब्ङ्क्ते यस्मात्
 
, तेन शत्रोनेंत्रमावृणोति
( शत्रुरन्धो भवेत् इति यावत् ) इति, दर्शपूर्णमासयोः प्रयाजा अनूयाजाश्चाऽनुष्ठीयन्त

इति यत् तेन यज्ञस्य यजमानस्य च कवचेनाऽऽवरणं कृतं भवति इति च वाक्यत्रयस्य

क्रमशोऽर्थाः । ज्योतिष्टोमे दीक्षामध्ये श्रुतं यदाङ्क्त इति । दर्शपूर्णमासप्रकरणे प्रया-

जसन्निधौ वर्मेत्यादि । अत्र सर्वत्राप्याद्यपदेन क्रमात् 'यस्य वैकङ्कती ध्रुवा भवति

प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रैव जायते' । 'यन्नवनीतेनाभ्यङ्क्ते सर्वा एव

देवताः प्रीणाति' । 'यदाज्यभागौ यजति चक्षुषी एव तद्यशस्य प्रतिद्धाति'

इत्यादयो ग्राह्याः । सूत्रस्थ कर्मपदस्यार्थमाह - --कर्मपदमिति । पृथगिति । संस्कारप
-
देन ग्रहणादित्यर्थः ॥
 

 
3
 
तेन शत्रोनेंत्रमावृणोति
 

 
( प्रकरणस्य क्रियैकविषयत्वनिरूपणम् )
 

 
एवं प्रकरणं निरूप्य तस्य इतरप्रमाणेभ्यो व्यावृत्तं विशेषमाह - --तदिदमिति ।

किं सर्वथा द्रव्यगुणाविनियोजकत्वम् ? नेत्याह--तयोरिति । प्रथमतः प्रेक्षावतः पुरु-

षस्य फल विषयिण्येवाकाङ्क्षा, अनन्तरं तत्साघने, अनन्तरं च तत्प्रकारविशेष इति

तेनैव क्रमेण आकांक्षामुपपादयति - --किमिति । षष्ठाद्यन्यायेनेति । उपपादितमेतद
 
-
 
[^
.] यस्य पर्णमयी जुहूर्भवतीत्येवमाद्या ख. पु.