2023-02-20 11:47:17 by ambuda-bot
This page has not been fully proofread.
मोमांसान्यायप्रकाशः
[प्रकर
न स्वतन्त्र फलार्थत्वमिति । तदुक्तम्-
'द्रव्यसंस्कारकर्मसु परार्थत्वात् फलश्रुतिर्थवादः स्यात्' इति ।
मन्त्र द्रव्ये फलश्रुतिः (१) "यस्य पर्णमयो जुहूर्भवति न स पापश्श्लोक
शृणोति" इत्येवमाद्या । संस्कारे फलश्रुतिः "यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य
वृङ्ते' इत्येवमाद्या । कर्मणि फलश्रुतिः 'वर्म वा एतद्यज्ञस्य क्रियते यत्प्रया-
जानूयाजा इज्यन्ते' इत्याद्या । कर्मपदं चारादुपकारक कर्मपरं द्रष्टव्यम्, संस्का-
रकर्मणः पृथक्संकीर्तनादित्यास्तां तावत् ॥
( प्रकरणस्य क्रियैकबिषयत्वनिरूपणम् )
HER
१
तदिदं प्रकरणं क्रियाया एव विनियोजकम्, न द्रव्यगुणयोः । तयोस्तु
क्रियायोगाद्विनियोजकम् । कुत इति चेत् ? शृणु-'यजेत स्वर्गकाम' इत्यत्रा-
ख्यातांशेनार्थी भावनाभिधीयते - भावयेदिति । सा चांशत्रयमपेक्षते - किं भाव-
येत्, केन भावयेत्; कथं भावयेदिति । तत्र भाव्याकाङ्क्षायां षष्ठाद्यन्यायेन
स्वर्गो भाव्यतयान्वेति - स्वर्गं भावयेदिति । करणाकाङ्क्षायां समानपदोपात्तो
प्रकरणप्राबल्यनिरूपणावसरे इति शेषः । प्रयाजादीनां स्वतन्त्रफलार्थत्वाभावे चातुर्थिकं
सूत्रं प्रमाणयति — द्रव्यसंस्कारेति । यस्य पर्णमयीत्यादौ द्रव्ये, यदाक्त इत्यादौ
संस्कारे, यत्प्रयाजानूयाजाः इत्यादावर्थकर्मणि च फलश्रवणं अर्थवादस्स्यात् ।
तेषां क्रत्वर्थत्वादिति सूत्रार्थ: । प्रत्येकमुदाहरति-द्रव्येति । अनारभ्यवादोऽयं यस्येति ।
यस्य यजमानस्य यज्ञे दर्शपूर्णमासादौ जूहूः पलाशवृक्षीयकाष्ठनिर्मिता ( जुहूः होमसा-
धनद्रव्यधारणार्थः पात्रविशेषः ) भवेत् स यजमानः पापं श्लोकं अपकीर्ति कदाऽपि न
शृणुयात्, इति, यजमानः स्वे चक्षुषी अञ्जनेनाऽऽब्ते यस्मात्
( शत्रुरन्धो भवेत् इति यावत् ) इति, दर्शपूर्णमासयोः प्रयाजा अनूयाजाश्चाऽनुष्ठीयन्त
इति यत् तेन यज्ञस्य यजमानस्य च कवचेनाऽऽवरणं कृतं भवति इति च वाक्यत्रयस्य
क्रमशोऽर्थाः । ज्योतिष्टोमे दीक्षामध्ये श्रुतं यदाङक्त इति । दर्शपूर्णमासप्रकरणे प्रया-
जसन्निधौ वर्मेत्यादि । अत्र सर्वत्राप्याद्यपदेन क्रमात् 'यस्य वैकङ्कती ध्रुवा भवति
प्रत्येवास्याहुतयस्तिष्ठन्त्यथो प्रैव जायते' । 'यन्नवनीतेनाभ्य सर्वा एव
देवताः प्रीणाति' । 'यदाज्यभागौ यजति चक्षुषी एव तद्यशस्य प्रतिद्धाति'
इत्यादयो ग्राह्याः । सूत्रस्थ कर्मपदस्यार्थमाह - कर्मपदमिति । पृथगिति । संस्कारप
देन ग्रहणादित्यर्थः ॥
।
3
तेन शत्रोनेंत्रमावृणोति
( प्रकरणस्य क्रियैकविषयत्वनिरूपणम् )
एवं प्रकरणं निरूप्य तस्य इतरप्रमाणेभ्यो व्यावृत्तं विशेषमाह - तदिदमिति ।
किं सर्वथा द्रव्यगुणाविनियोजकत्वम् ? नेत्याह-तयोरिति । प्रथमतः प्रेक्षावतः पुरु-
•षस्य फल विषयिण्येवाकाङ्क्षा, अनन्तरं तत्साघने, अनन्तरं च तत्प्रकारविशेष इति
तेनैव क्रमेण आकांक्षामुपपादयति - किमिति । षष्ठाद्यन्यायेनेति । उपपादितमेतद
१. यस्य पर्णमयी जुहूर्भवतीत्येवमाया ख. पु.