2023-04-06 06:38:33 by dmraviteja
This page has been fully proofread once and needs a second look.
रात्रिसत्रन्यायेन वार्थवादिकं फलं कल्प्यताम् । रात्रिसत्राधिकरणे हि
"प्रतितिष्ठन्ति ह वै य एता रात्रीरूपयन्ती" त्यत्र विध्युद्देशे फलाश्रवणात्फ-
लमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये आर्थवादिकं प्रति-
ष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य
प्रकृतसम्बन्धकल्पने गौरवात, अर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने
लाघवात् । तदुक्तम्--
'फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्' इति ।
तस्मा [^१] द्विश्वजिन्न्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्रफलार्थत्वे सम्भ-
वति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति चेत्--
मैवम् । स्वतन्त्रफलार्थत्वेऽन्यतराकाङ्क्षया सम्बन्धः स्यात् । न ह्यत्र फल-
स्य साधनाकाङ्क्षाऽस्ति । श्रूयमाणं हि फलं साधनमाकाङ्क्षति, न चात्र तत् श्रूय-
ते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याका-
ङ्क्षयैव स्वतन्त्रफलार्थत्वं स्यात् । दर्शपूर्णमासार्थत्वे तूभयाकाङ्क्षा प्रमाणम् ।
प्रयाजानां भाव्याकाङ्क्षाया इतरत्र च कथंभावाकाङ्क्षायाः सत्त्वात् । अन्यतरा-
काङ्क्षातश्चोभयाकाङ्क्षा बलीयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थत्वमेव युक्तं
[commentary]
विशेषरूपत्वेऽपि पुत्रपश्वाद्यपेक्षयाऽभ्यर्हितत्वेन तत्रैव सर्वेषामभिलाषोदयात् तस्य सर्वाभि-
लषितत्वम् । यत्रार्थवादेऽपि नास्ति फलश्रवणं तत्रैव विश्वजिदधिकरणप्रवृत्तेः अत्र च
"वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजानुयाजा इज्यन्ते वर्म यजमानाय भ्रातृ-
व्याभिभूत्या" इत्यर्थवादसत्वात् तत्र च भ्रातृव्याभिभूतिरूपफलश्रवणात् विश्वजिन्याया-
नवतारं मन्वानः न्यायान्तरेण स्वतन्त्रफलार्थतामाह--रात्रीति । आर्थवादिकमिति ।
अर्थवादप्रतिपादितं भ्रातृव्याभिभूतिरूपमित्यर्थः । भ्रातृव्यः शत्रुः । तस्याभिभूतिः
नाशः । प्रतीति । ये एतान् रात्रिसंज्ञकान् क्रतूननुतिष्ठन्ति ते प्रतिष्ठां प्राप्नुवन्तीत्यर्थः ।
इत्यत्र विध्युद्देश इति । इत्यर्थवादसन्निहिते "ज्योतिर्गौरायुरिति त्र्यहा भवन्ति"
इति विधिवाक्य इत्यर्थः । नन्वत्रापि विश्वजिन्न्यायेन स्वर्गः कल्प्यताम् । किमर्थं वर्तमा-
ननिर्दिष्टस्यान्यार्थस्य फलपरत्वमङ्गीक्रियत इत्यत आह
--विश्वजिदिति । लाघवादिति ।
अध्याहारापेक्षया वर्तमाननिर्देशस्य सन्नन्ततया विपरिणामोऽपि लघुभूत इति भावः ।
तदधिकरणसूत्रं प्रमाणयति--फलमिति । अर्थवादप्रतिपादितं प्रतिष्ठाख्यं फलं मन्यते
आत्रेयः आचार्यः, तस्यैव निर्दिष्टत्वात् तस्य अश्रुतौ अश्रवणे हि स्वर्गादेः फलान्तरस्य
अनुमानं कल्पनं इति सूत्रार्थः । स्वीक्रियत इति । प्रयाजादीनामिति शेषः । एवं च
प्रयाजादिषु स्वसमीपे फलबोधकपदश्रवणे तद्बोधितस्यैवफलत्वमस्तु । तदभावे स्वर्गः फल-
मस्तु । सर्वथा न दर्शपूर्णमासाङ्गत्वं तेषामिति भावः ।
एवं स्वतन्त्रफलार्थत्वं पूर्वपक्षयित्वा तन्निराकरोति--मैवमिति । अन्यतरा-
काङ्क्षयेति । स्थानरूपपञ्चमप्रमाणविनियोज्यत्वं स्यादित्यर्थः । तदुपपादयति--नहीति ।
तत् श्रूयत इति । 'समिधो यजति, तनूनपातं यजति, आघारमाघारयति, आज्य-
भागौ यजति' इति फलपदरहितानामेव वाक्यानां श्रवणात् इति भावः । वक्ष्यत इति ।
[^१
१.] विश्वजिदधिकरणन्यायेन ।
७ मो० न्या०

१.
७ मो० न्या०