This page has been fully proofread once and needs a second look.

निरूपणम् ]
 
सारविवेचिनीव्याख्या संवलितः
 
रात्रिसत्रन्यायेन वार्थवादिकं फलं कल्प्यताम् । रात्रिसत्राधिकरणे हि

"प्रतितिष्ठन्ति ह वै य एता रात्रीरूपयन्ती" त्यत्र विध्युद्देशे फलाश्रवणात्फ-

लमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये श्रार्थवादिकं प्रति-

ष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य

प्रकृतसम्बन्धकल्पने गौरवात, अर्थवादोपस्थितस्यैव प्रकृतफलत्वकल्पने

लाघवात् । तदुक्तमू
 
म्--
 
'फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्यात्' इति ।

 
तस्मा ([^)] द्विश्वजिन्न्यायेन रात्रिसत्रन्यायेन वा स्वतन्त्र फलार्थत्वे सम्भ-

वति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति चेत् -
 
,
 
--
 
मैवम् । स्वतन्त्रफलार्थत्वेऽन्यतराकाङ्क्षया सम्बन्धः स्यात् । न ह्यत्र फल-

स्य साधनोनाकाङ्क्षाऽस्ति । श्रूयमाणं हि फलं साधनमाकाङ्क्षति, न चात्र तत् श्रूय
-
ते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याका-

ङ्क्ष
यैव स्वतन्त्र फलार्थत्वं स्यात् । दर्शपूर्णमासार्थत्वे तूभयाकाङ्क्षा प्रमाणम् ।

प्रयाजानां भाव्याकाङ्क्षाया इतरत्र च कथंभावाकाङ्क्षायाः सत्त्वात् । अन्यतरा-

काङ्क्षतिषातश्चोभयाकाङ्क्षा बलीयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थत्वमेव युक्तं

 
[commentary]
 
विशेषरूपत्वेऽपि पुत्रपश्वाद्यपेक्षयाऽभ्यर्हितत्वेन तत्रैव सर्वेषामभिलाषोदयात् तस्य सर्वाभि
-
लषितत्वम् । यत्रार्थवादेऽपि नास्ति फलश्रवणं तत्रैव विश्वजिदधिकरणप्रवृत्तेः अत्र च

"वर्म वा एतद्यज्ञस्य क्रियते यत्प्रयाजानुयाजा इज्यन्ते वर्म यजमानाय भ्रातृ-

व्याभिभूत्या" इत्यर्थवादसत्वात् तत्र च भ्रातृव्याभिभूतिरूप फलश्रवणात् विश्वजिन्याया
-
नवतारं मन्वानः न्यायान्तरेण स्वतन्त्रफलार्थतामाह - --रात्रीति । श्रार्थवादिकमिति ।

अर्थवादप्रतिपादितं भ्रातृव्याभिभूतिरूपमित्यर्थः । भ्रातृव्यः शत्रुः । तस्याभिभूतिः

नाशः । प्रतीति । ये एतान् रात्रिसंज्ञकान् क्रतूननुतिष्ठन्ति ते प्रतिष्ठां प्राप्नुवन्तीत्यर्थः ।

इत्यत्र विध्युद्देश इति । इत्यर्थवादसन्निहिते "ज्योतिर्गौरायुरिति व्त्र्यहा भवन्ति"

इति विधिवाक्य इत्यर्थः । नन्वत्रापि विश्वजिन्न्यायेन स्वर्गः कल्प्यताम् । किमर्थं वर्तमा-

ननिर्दिष्टस्यान्यार्थस्य फलपरत्वमङ्गीक्रियत इत्यत आह
-

--
विश्वजिदिति । लाघवादिति ।

अध्याहारापेक्षया वर्तमाननिर्देशस्य सन्नन्ततया विपरिणामोऽपि लघुभूत इति भावः ।

तदधिकरणसूत्रं प्रमाणयति - --फलमिति । अर्थवादप्रतिपादितं प्रतिष्ठाख्यं फलं मन्यते

आत्रेयः प्राचार्यः, तस्यैव निर्दिष्टत्वात् तस्य अश्रुतौ प्रश्रवणे हि स्वर्गादेः फलान्तरस्य

अनुमानं कल्पनं इति सूत्रार्थः । स्वीक्रियत इति । प्रयाजादीनामिति शेषः । एवं च

प्रयाजादिषु स्वसमीपे फलबोधकपद श्रवणे तद्बोधितस्यैवफलत्वमस्तु । तदभावे स्वर्गः फल-

मस्तु । सर्वथा न दर्शपूर्णमासाङ्गत्वं तेषामिति भावः ।
 
2
 
."
 

 
एवं स्वतन्त्रफलार्थत्वं पूर्वपक्षयित्वा तन्निराकरोति - --मैवमिति । अन्यतरा
-
काङ्क्षयेति । स्थानरूपपञ्चमप्रमाणविनियोज्यत्वं स्यादित्यर्थः । तदुपपादयति --नहीति ।
तत् श्र

तत् श्रू
यत इति । 'समिधो यजति, तनूनपातं यजति, आधाघारमाघारयति, श्राज्य-

भागौ यजति' इति फलपदरहितानामेव वाक्यानां श्रवणात् इति भावः । वक्ष्यत इति ।
 


 

 
१. विश्वजिदधिकरणन्यायेन ।

७ मो० न्या०