This page has been fully proofread once and needs a second look.

मीमांसान्यायप्रकाशः
 
[ प्रकरण-
मित्यत्रेन्द्राग्नीपदस्य लिङ्गाद्दर्शाङ्गत्वे सिद्धे 'इदं हवि' रित्यादेरपि तदेकवाक्य-

त्वाद्दर्शाङ्गत्वम्, न तु प्रकरणाद्दर्शपूर्णमासाङ्गत्वम्, प्रकरणाद्वाक्यस्य बली-

यस्त्वादिति ॥
 
४८
 

 
( प्रकरणनिरूपणम्)
 

 
उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु "समिधो यजती"ति । अत्र हि

इष्टविशेषस्यानिर्देशात्समिद्यागेन भावयेत् किमित्यस्त्युपकार्याकाङ्क्षा । दर्शपूर्ण-

मासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वर्गं भावयेत् कथमित्यस्त्युपकारकाकाङ्क्षा ।
श्र

त उभयाकाङ्क्षया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति ।
 

 
ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न ध्श्रूयते तर्हि विश्वजिन्न्यायेन

स्वर्ग: फलं कल्प्यताम् । विश्वजिदधिकरणे हि "विश्वजिता यजेते" त्यत्र

फलस्याश्रवणात् फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये

सर्वाभिलषितत्वेन स्वर्गः फलमित्युक्तम् । तदुक्तम्-
-
'स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्' इति ।
 

 
[commentary]
 
ऐन्द्राग्नयागे समवेतमि<error>न्द्र</error><fix>न्द्रा</fix>ग्नीपदमिति लिङ्गादेव तदङ्गत्वं तस्य सिद्धम् । तत्समभिव्याहृ
-
तानामिदं हविरित्यादीनां प्रकरणे पाठात् प्रकरणस्य चाविशेषात् दर्शपूर्णमासोभयार्थत्वे

प्राप्ते तद्बाधित्वा प्रबलेन इन्द्राग्नीपदसमभिव्याहाररूपेण वाक्येन दर्शमात्राङ्गत्वमिति ।

अत्र
चाधिकाराख्यं प्रकरणं बोध्यम् । उभयाकाङ्क्षालक्षणस्य प्रकरणस्य सिद्धमन्त्र विनि-

योजकत्वाभावात् ॥
 
YE
 

 
( प्रकरण निरूपणम् )
 

 
प्रकरणमिदानोंनीं निरूपयति--उभयेति । अङ्गप्रधानोभयगतपरस्पराकाङक्षैङ्क्षेत्यर्थः ।

'प्रयाजादिषु' इत्यादि पदेनाघाराज्यभागादिविधयो गृह्यन्ते । परस्पराकासाङ्क्षा मेवोपपादयति-
-
अत्र होहीति । इष्टविशेषानिर्देशादिति । विधिश्रवणान्यथानुपपत्या भावनाया इष्ट.

सामान्यभाव्यकत्वावगमेऽपि फलविशेषस्याश्रवणात् तत्कल्पनं यावदाकाङ्क्षाया अशान्ते-

रित्यर्थः । अन्यत्राप्याकाङ्क्षामुपपादयति - --दर्शेति । एवं च प्रयाजादीनामुपकार्याकाङ्क्षा-

सत्वात् प्रधानस्य चोपकारकाकाङ्क्षावत्वात् नष्टाश्वदग्धरथन्यायेन परस्परसम्बन्धेन सिध्यति

दर्शपूर्णमासाङ्गत्वं प्रयाजादीना मित्याह - श्र--अत इति ।
 
M
 

 
ननु प्रयाजादीनां फलाकाङ्क्षायां साक्षात् स्वर्गार्थत्वमेव कल्प्यताम्, किमर्थं दर्श-

पूर्णमासोपकारकत्वं कल्प्यते । स्वतन्त्रफलार्थत्वे सम्भवति अन्याङ्गत्वकल्पनस्यान्याय्य

त्वादिति शङ्कते-–नन्विति । विश्वजितेति । अयं चैकाकाण्डपठितो विश्वजिद्दो-
बो-
ध्यः । 'सर्वेभ्यो वा एष देवेभ्यस्सर्वेभ्यश्छन्दोभ्यस्सर्वेभ्यः पृष्ठेभ्य आत्मनमा
-
गुरते यस्सनात्रायागुरते स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेद
-
सदक्षिणेन यजेत" इति वाक्यविहितो विश्वजित् भाग्योदाहृतोऽपि नात्रोदाहरणम् । तस्य

वाक्येनैव सत्रफलार्थतावगमात् । स स्वर्ग इति । सः कल्पनीयः फलविशेषः स्वर्गः

स्यात् सर्वपुरुषान् प्रत्यविशेषात् । सर्वाभिलषितत्वादिति यावत्, इति सूत्रार्थः । स्वर्गस्थ

दुःखासंभिन्नसुखरूपत्वेन तत्राविशेषात् सर्वेषामेवोत्कटरागोदयादिति भावः । तस्य देश-
.