2023-02-20 11:47:16 by ambuda-bot
This page has not been fully proofread.
मीमांसान्यायप्रकाशः
[ प्रकरण-
मित्यत्रेन्द्राग्नीपदस्य लिङ्गादर्शाङ्गत्वे सिद्धे 'इदं हवि' रित्यादेरपि तदेकवाक्य-
त्वाद्दर्शाङ्गत्वम्, न तु प्रकरणादर्शपूर्णमासाङ्गत्वम्, प्रकरणाद्वाक्यस्य बली-
यस्त्वादिति ॥
४८
( प्रकरणनिरूपणम्)
उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु "समिधो यजती"ति । अत्र हि
इष्टविशेषस्यानिर्देशात्समिद्यागेन भावयेत् किमित्यस्त्युपकार्याकाङ्क्षा । दर्शपूर्ण-
मासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वगं भावयेत् कथमित्यस्त्युपकारकाकाङ्क्षा ।
श्रत उभयाकाङ्क्षया प्रयाजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति ।
ननु यदि प्रयाजादिवाक्ये इष्टविशेषो न ध्यते तर्हि विश्वजिन्यायेन
स्वर्ग: फलं कल्प्यताम् । विश्वजिदधिकरणे हि "विश्वजिता यजेते" त्यत्र
फलस्याश्रवणात् फलमन्तरेण च विधिश्रुतेरनुपपत्तेरवश्यं फले कल्पयितव्ये
सर्वाभिलषितत्वेन स्वर्गः फलमित्युक्तम् । तदुक्तम्-
'स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वात्' इति ।
ऐन्द्राग्नयागे समवेतमिन्द्रग्नीपदमिति लिङ्गादेव तदङ्गत्वं तस्य सिद्धम् । तत्समभिव्याहृ
तानामिदं हविरित्यादीनां प्रकरणे पाठात् प्रकरणस्य चाविशेषात् दर्शपूर्णमासोभयार्थत्वे
प्राप्ते तद्बाधित्वा प्रबलेन इन्द्राग्नीपदसमभिव्याहाररूपेण वाक्येन दर्शमात्राङ्गत्वमिति ।
चाधिकाराख्यं प्रकरणं बोध्यम् । उभयाकाङ्क्षालक्षणस्य प्रकरणस्य सिद्धमन्त्र विनि-
योजकत्वाभावात् ॥
YE
( प्रकरण निरूपणम् )
प्रकरणमिदानों निरूपयति – उभयेति । अङ्गप्रधानोभयगतपरस्पराकाङक्षैत्यर्थः ।
'प्रयाजादिषु' इत्यादि पदेनाघाराज्यभागादिविधयो गृह्यन्ते । परस्पराकासा मेवोपपादयति-
अत्र होति । इष्टविशेषानिर्देशादिति । विधिश्रवणान्यथानुपपत्या भावनाया इष्ट.
सामान्यभाव्यकत्वावगमेऽपि फलविशेषस्याश्रवणात तत्कल्पनं यावदाकाङ्क्षाया अशान्ते-
रित्यर्थः । अन्यत्राप्याकाङ्क्षामुपपादयति - दर्शेति । एवं च प्रयाजादीनामुपकार्याकाङ्क्षा-
सत्वात् प्रधानस्य चोपकारकाकाङ्क्षावत्वात् नष्टाश्वदग्धरथन्यायेन परस्परसम्बन्धेन सिध्यति
दर्शपूर्णमासाङ्गत्वं प्रयाजादीना मित्याह - श्रत इति ।
M
ननु प्रयाजादीनां फलाकाङ्क्षायां साक्षात् स्वर्गार्थत्वमेव कल्प्यताम्, किमर्थं दर्श-
पूर्णमासोपकारकत्वं कल्प्यते । स्वतन्त्रफलार्थत्वे सम्भवति अन्याङ्गत्वकल्पनस्यान्याय्य
त्वादिति शङ्कते–नन्विति । विश्वजितेति । अयं चैकाइकाण्डपठितो विश्वजिद्दो-
ध्यः । 'सर्वेभ्यो वा एष देवेभ्यस्सर्वेभ्यश्छन्दोभ्यस्सर्वेभ्यः पृष्ठेभ्य आत्मनमा
गुरते यस्सनायागुरते स विश्वजितातिरात्रेण सर्वपृष्ठेन सर्वस्तोमेन सर्ववेद
सदक्षिणेन यजेत" इति वाक्यविहितो विश्वजित् भाग्योदाहृतोऽपि नात्रोदाहरणम् । तस्य
वाक्येनैव सत्रफलार्थतावगमात् । स स्वर्ग इति । सः कल्पनीयः फलविशेषः स्वर्गः
स्यात् सर्वपुरुषान् प्रत्यविशेषात् । सर्वाभिलषितत्वादिति यावत्, इति सूत्रार्थः । स्वर्गस्थ
दुःखासंभिन्नसुखरूपत्वेन तत्राविशेषात् सर्वेषामेवोत्कटरागोदयादिति भावः । तस्य देश-
.
•